________________
भूते ॥५॥४॥१०॥ भूतेऽर्थे वर्तमानाद्धातोः सप्तम्यर्थे क्रियातिपत्ती क्रियातिपत्तिः स्यात्।
सप्तम्यताप्योर्वाढे ॥५॥४॥२१॥ इत्यारभ्य सप्तम्यर्थेऽनेन विधानम् । ततः पूर्व वोतात्प्रागि(५।४।११)ति विकल्पो वक्ष्यते । दृष्टो मया तव पुत्रोऽन्नार्थों चङ्कभ्यमाणोऽपरश्च अतिथ्यर्थी यदि स तेन दृष्टोऽभविष्यत् । उताभोक्ष्यत अप्यभोक्ष्यत न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् ।
वोतात्प्राक् ॥५॥४॥११॥
सप्तम्यताप्योाढे ॥५॥४॥२१॥ इत्यत्र यदुतशब्दसङ्कीर्तनं ततः प्राक् सप्तमीनिमित्ते क्रियातिपत्तौ सत्यां क्रियातिपत्तिा स्याद्भूतेऽर्थे । कथं नाम संयतः सन् अनागाढे तत्र भवानाधाय कृतमसेविष्यत धिग्गहीमहे । पक्षे यथाप्राप्तम् । कथं सेवेत धिग्गामहे ।
क्षेपेऽपिजात्वोर्वर्तमाना ॥५॥४॥१२॥ क्षेपो गीं। तस्मिन् वर्तमाने ऽपि जात्वोरुपपदयोर्वर्तमाना विभक्तिर्भवति। कालसामान्ये विधानात् कालविशेषे विहिताः प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्र भवान् जन्तून् हिनस्ति । जातु तत्र भवान् भूतान हिनस्ति । कालत्रयेऽप्ययं विधिः।
कथमि सप्तमी च वा ॥५।४।१३॥ वाक्षेप इत्येव । कालत्रयेऽप्ययं विधिः । कथं धर्म त्यजे । त्यजसि वा। पक्षे कालत्रयविभक्तयः।
किंवृत्ते सप्तमीभविष्यन्यौ ॥५॥४॥१४॥ क्षेप इत्येव । नात्र विकल्पः । सर्वविभत्स्यपवादः । किं तत्र भवानन्तं ब्रूयात् वक्ष्यति वा । भूते क्रियातिपत्तौ चान्तिमा विभक्तिरपि । किं तत्र भवाननृतमवक्ष्यत् । पक्षे ब्रूयात् । वक्ष्यति । अश्रद्धामर्षेऽन्यत्रापि ॥ अश्रद्धायां न श्रद्दधे न सम्भावयामि नावकल्पयामि तत्रभवान्नामादत्तं गृह्णीयात् । ग्रहीष्यति । एवं किंवृत्तेरपि ॥ अमर्षे न मर्षयामि न क्षमे धिम् मिथ्या नैतदस्ति तत्रभवानामादत्तम् आददीत । आदास्थते वा । पक्षे भूते क्रियातिपाते वाऽन्तिमान श्रदधे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् । पक्षे गृह्णीयात् । गृहीष्यति ।
किं किलास्त्यर्थयोर्भविष्यन्ती ॥५॥४॥१६॥ अश्रद्धामर्षयोर्भविष्यन्ती स्यात् न सप्तमी । न श्रहधे न क्षमे किं किल