________________
३८६
श्वस्तनी विषये भविष्यन्ती स्यादित्येवमर्थम् । उपाध्यायश्चेच्छ्रः शीघ्रमागमिष्यति एते श्वः शीघ्रमध्येष्यामहे । आशंसार्थे खल्वपि । उपाध्यायश्वेदागच्छति आगमत् आगमिष्यति आगन्ता आशंसे अवकल्पये सम्भावये युक्तोऽधीयीय । द्वयोरुपपदयोः सप्तम्येव परत्वात् । अहमाशंसे क्षिप्रमधीयीय ।
सम्भावने सिद्धवत् ॥५|४|४|
हेतोः शक्तिविशेषः, श्रद्धानं सम्भावनं तस्मिन्विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत्प्रत्ययाः स्युः । “समये चेत्प्रयत्नोऽभूदुदभूषन् विभूतयः । इषे चेन्माधaisaर्षीत्समापत्सत शालयः ॥ १ ॥ "
नानद्यतनः प्रबन्धासत्त्योः ॥५|४|५॥
धात्वर्थस्य क्रियायाः प्रबन्धे सातत्ये आसत्तौ सामीप्ये गम्यमाने धातोरनयतनविहितः प्रत्ययो न स्यात् । स्वस्तनीश्वस्तन्योः प्रतिषेधः । यावज्जीवं भृशमन्नमदात् । यावज्जीवं भृशमन्नं दत्तवान् । यावज्जीवं भृशमन्नं दास्यति | आसतौ येयं पौर्णमास्यतिक्रान्ता तस्यां जिनमहः प्रावर्तिष्ट । प्रवृत्तः । येयं पौर्णमास्यागामिनी तस्यां जिनपूजामहः प्रवर्तिष्यते ।
एष्यत्यवधौ देशस्यार्वाग्भागे || ५|४|६ ॥
देशस्य योsवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वागन्तव्य आशत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । द्विः सक्तून् पास्यामः । कालस्यानहोरात्राणाम् ||५|४|७॥
देशवत्कालस्यापि विषये विधिः परमहोरात्रवर्जम् । न चेत्सोऽर्वाग्भागोऽहोरात्रसम्बन्धि भवतीत्यर्थः । योऽयमागामिसंवत्सरस्तस्य यदवरमा ग्रहायण्यास्तत्र जिन पूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे । अनहोरात्राणामिति किम् ? aisi मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे । परे वा ॥ ५|४|८ ॥
कालस्य योsवधिस्तद्वाचिन्युपपदे कालस्य परभागेऽनहोरात्रसम्बन्धिनि य eosनर्थस्तत्र धातोरनद्यतनविहितः प्रत्ययो वा स्यात् । आगामिनो वर्षस्याग्रहायण्याः परस्ताद्विः सूत्रमध्येष्यामहे । अध्येतामहे वा । कालस्येत्येव । आशत्रुञ्जयाङ्गन्तव्येऽध्वनि वलभ्याः परस्ताद्विरोदनं भोक्तास्महे । प्रबन्धासत्तिविवक्षायामपि परत्वादयमेव विकल्पः । आगामिनः संवत्सरस्य आग्रहायण्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे ।