________________
लिप्स्यसिद्धौ ॥५॥३॥१०॥ लन्धुमिष्यमाणो लिप्स्यः । तस्य सिद्धौ खर्गाद्यवाप्तिलक्षणायां गम्यमानायां वत्स्यत्यर्थे वर्तमानाद्धातोर्वर्तमाना वा स्यात् । पक्षे प्राग्वत् । योऽन्नं ददाति दास्यति दाता वा स स्वर्ग याति यास्यति याता वा ।
पञ्चम्यर्थहेतौ ॥५॥३॥११॥ पञ्चम्यर्थः प्रैषादिः, तस्य हेतुर्निमित्तं तस्मिन्नर्थे वस्य॑ति वा वर्तमाना स्यात्। पक्षे प्राग्वत् । उपाध्यायश्चेदागच्छति आगमिष्यति आगन्ता वा । अथ त्वं सूत्रमधीष्व।
सप्तमी चोर्द्धमौहूर्तिके ॥५॥३॥१२॥ ऊर्द्धमुहूर्ताद्भवः ऊर्द्धमौहूर्तिकः पञ्चम्यर्थ हेतौ वय॑त्यर्थधातोः सप्तमी वर्तमाना च विभक्तिर्वा स्यात् । पक्षे प्राग्वत् । ऊर्द्धमुहूर्तादुपाध्यायश्चेदागच्छेद आगच्छति आगमिष्यति आगन्ता वा । अथ त्वं तर्कमधीष्व ।
सत्सामीप्ये सद्वद्वा ॥५॥४॥१॥ सतो वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे धातोर्वर्तमानवत्प्रत्ययाः स्युः । सतीतिसूत्रादारभ्यापादपरिसमासेये विहिताः प्रत्यया भूतभविष्यतोर्वाडतिदिश्यन्ते । कदा चैत्रागतोऽसि ? अयमागच्छामि । आगच्छन्तमेव मां विद्धि । वावचनायथाप्राप्तम् । अयमागमम् । एषोऽस्मि आगतः। कदा चैत्र गमिष्यसि ? एष गच्छामि । गच्छन्तमेव मां विद्धि । पक्षे एष गमिष्यामि । गन्तास्मि । गमि. ष्यन्तमेव मां विद्धि।
भूतवच्चाशंस्ये वा ॥५॥४॥२॥ अनागतस्य प्रियस्यार्थस्य आशंसनं प्रासुमिच्छा आशंसा तद्विषय आशंस्था, तस्मिन्नर्थे वर्तमानाद्धातोभूतवचकारात्सद्वच्च प्रत्यया वा स्युः। आशंस्यस्य भवि. ध्यदर्थत्वादयमतिदेशः । वा ग्रहणाद्यथाप्राप्तं च । उपाध्यायश्चेदागमत् एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यति एते तर्कमध्यगीष्महि । उपाध्यायश्चेदागतः एतैस्तकर्कोऽधीतः। स चेदागच्छति एते तर्कमध्येषामहे । उपाध्यायश्चेदागन्ता एते तर्कमध्येतास्महे । सामान्यातिदेशेन विशेषस्थानतिदेशाद' ह्यस्तनीपरोक्षे न स्याताम् ।
क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ ॥५॥४॥३॥
क्षिप्रार्थे आशंसार्थे चोपपदे आशंसार्थधातोः क्रमाद्भविष्यन्तीसप्तम्यौ भवतः । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आगन्ता क्षिप्रमाशु त्वरितमरंशीघ्रमेते सिद्धान्तमध्येष्यामहे । क्षिप्रार्थेनेति वक्तव्ये भविष्यन्तीवचनं
चं. प्र. ४९