________________
३८४
नन्वोर्वा ॥५॥२॥१८॥ ननु इत्येतयोः शब्दयोरुपपदयोः पृष्टोक्ती भूते वर्तमाना वा स्यात् । किमकार्षीः कटं चैत्र ? न करोमि भोः। नाकार्षम् । कस्तत्रावोचत् । अहं नु ब्रवीमि । अहं न्ववोचम् ।
शत्रानशावेष्यति तु सस्यौ ॥५॥२॥२०॥ वर्तमानार्थे वर्तमानाद्धातोः शत्रानशौ स्तः, एष्यति काले तु स्यप्रत्ययसहितौ शत्रानशौ स्तः । यान् । यान्तौ। यान्तः । शयानः। शयानौ । शयानाः। निरस्थन् । निरस्यमानः । समानविषयत्वाद्वर्तमानाऽपि । याति । यातः। यान्ति ।
तो मायाकोशेषु ॥५॥२॥२१॥ माङि उपपदे आक्रोशे गम्यमाने सति शत्रानशौ स्तः । मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः ।
वा वेत्तेः कसुः ॥५॥२॥२२॥ वर्तमानार्थे वेत्तेः कसुर्वा स्यात् । तत्वं विद्वान् । पक्षे विदन् । संविदानः ।
स्मे च वर्तमाना ॥५॥२॥१६॥ भूतानद्यतने परोक्षेऽपरोक्षे चार्थे वर्तमानाद्धातोः मशब्दे पुरादौ चोपपदे वर्तमाना विभक्तिर्भवति । इति स्मोपाध्यायः कथयति । पृच्छति स्म पुरोधसम् । वसन्तीह पुरा छात्राः।
__ वाद्यतनी पुरादौ ॥५॥२॥१५॥ परोक्ष इति निवृत्तम् । भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोः पुरादावुपपदे अद्यतनी विभक्तिर्वा भवति । अपरोक्षे ह्यस्तन्याः परोक्षे तु परोक्षाया अपवादः। अवाल्सुरिह पुरा छात्राः । अवसनिह पुरा छात्राः । ऊषुरिह पुरा छात्राः । वावचनात् पक्षे यथाप्राप्ति । भूतमात्रविवक्षाया अद्यतन्याः सिद्धौ पुरादियोगे तब्दघनं स्मृत्यर्थहशश्वत्स्मयोगे सामान्यविवक्षयाऽश्चतनी न भवतीतिज्ञापनार्थम् ।
कदाकोन वा ॥५॥३८॥ एतयोोंगे वय॑त्यर्थे वर्तमाना वा । पक्षे भविष्यन्तीश्वस्तन्यौ वा । कदा भुते, भोक्ष्यते, भोक्ता वा ? कर्हि भुले भोक्ष्यते वा भोक्ता।
किंवृत्ते लिप्सायाम् ॥५॥३॥९॥ किंवृत्ते उपपदे प्रष्टर्लिप्सायां गम्यायां वस्यत्यर्थे वर्तमानाद्धातोर्वर्तमाना वा भवति । पक्षे भविष्यन्तीश्वस्तन्यो । को भवतां भिक्षां ददाति । दास्यति दाता वा।