SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८३ भूषार्थसनकिरादिभ्यश्च ञिक्यौ || ३ | ४ |९३॥ भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकारात् णिस्तुश्यात्मनेपदाकर्मकेभ्यो धातुभ्यः कर्मकर्तरि मिक्यौ न स्तः । अलमकार्षीत्कन्यां चैत्रः । अलमकृत कन्या स्वयमेव । एवमलङ्करिष्यते कन्या स्वयमेव । अचिकीर्षत्कटं चैत्रः । अचिकीषष्ट चिकीर्षिष्यते । चिकीर्षते कटः स्वयमेव । प्रस्तुते गौः स्वयमेव । उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकर्मकः । विकुर्वते सैन्धवाः खयमेव । व्यकृत । व्यकृषाताम् । व्यकृषत । कुषिरर्व्याप्ये वा परस्मै च || ३ | ४|७४ ॥ कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात् । तत्सन्नियोगे श्यश्च नत्वात्मनेपदे । कुष्णाति चैत्रः पादम् । कुषयति कुष्यते वा पादः स्वयमेव । रज्यति रज्यते वा वस्त्रं स्वयमेव । कोषिषीष्ट । रंक्षीष्ट ॥ इति कर्मकर्तरि - t प्रक्रिया ॥ अथ विभक्त्यर्थाः । वा काङ्क्षायाम् ||५|२|१०॥ स्मृत्यर्थे धातावुपपदे सति यद्ययदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे धातोर्भविष्यन्ती वा स्यात् । स्मरसि मित्र यत्कश्मीरेषु वत्स्यामः, यत्तत्रोदनं भोक्ष्यामहे ? हशश्वद्युगान्तः प्रच्छ्ये ह्यस्तनी च ॥ ५२॥१३॥ हे शश्वति च प्रयुज्यमाने युगान्तः प्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोर्थस्तनी परोक्षा च विभक्ती स्तः । इति हाकरोत् । इति ह चकार । शश्वदकरोत् । शश्वच्चकार । प्रच्छये किम् ? अगच्छस्त्वं मथुरां जगन्ध वा ? वेत्येव सिद्धे ह्यस्तनीग्रहणात् स्मृत्यर्थयोगेऽपि ह्यस्तनी एव । स्मरसि मित्र कश्मीरेष्वतिहायैमहि | ननौ पृष्टोक्तौ सद्वत् ॥५/२/१७॥ ननु शब्दे उपपदे पृष्टोक्तौ भूतार्थेऽपि वर्तमाना स्यात् । शत्रानशावपि । किमकार्षीः कटं चैत्र ? ननु करोमि भोः । १ भाकाक्षा च यत्पदविशेष्यका व्यवहितोत्तरस्वादिसम्बन्धेन यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो या शशाब्दबोधाभागखाशशाब्दबोधे तस्पदे तत्पदाम्
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy