________________
चि ओदनः स्वयमेव । पच्यते ओदनः स्वयमेव । अदोहि गौः स्वयमेव । अदुग्ध गौः खयमेव । अधुक्षत । औदुम्बरं फलं पचति वायुः । उदुम्बरः फलं पच्यते। अकर्मकस्य पूर्वेण सिद्धे सकर्मकार्थ वचनम् ।
तपेस्तपःकर्मकात् ॥३।४।८५॥ तपाकर्मकात् तपेरर्थान्तरे वृत्तेः कर्तरि भिक्यात्मनेपदानि स्युः। अन्वतप्त तपः साधुः । तेपे तपांसि साथुः । तपिरत्र करोत्यर्थः ।
न कर्मणा मिच् ॥३।४।८८॥ पचिदुहोः कर्मणा योगेऽनन्तरोक्ते कर्तरि पिच न स्यात् । अपक्तोदुम्बरः फलं खयमेव । अदुग्ध गौः पयः खयमेव ।
रुधः ॥३।४।८९॥ रुधो धातोरनन्तरोक्ते कर्तरि त्रिच न स्यात् । अरुद्ध गौः स्वयमेव ।
स्वरदुहो वा ॥३।४।९०॥ खरान्ताद्धातोर्दुहेश्वानन्तरोक्ते कर्तरि त्रिच वा स्यात् । अकृत अकारि कटः खयमेव । अलविष्ट अलावि केदारः खयमेव । अदुग्ध अदोहि गौः स्वयमेव ।
णिस्नुथ्यात्मनेपदाकर्मकात् ॥३॥४॥९२॥ __ण्यन्ताद्धातोः स्तुश्रिभ्यां च तथाऽऽत्मनेपदविषये विधौ अकर्मकेभ्यश्च कर्म. कर्तरि जिच् न स्यात् । पचत्योदनं चैत्रः। तं प्रायुक्त अपीपचत् ओदनं चैत्रेण मैत्रः । पुनरोदनस्य सुकरखेन कतत्वे अपीपचतीदनः स्वयमेव । प्रारलावीगां देवदत्तः । प्रास्लोष्ट गौः स्वयमेव ।
नोः॥४॥४॥५२॥ लोः परस्य स्तायशित आदिरिट् स्यात् नत्वात्मनेपदे । उदशिश्रियत् दण्डं दण्डी । उदशिश्रियद् दण्डः स्वयमेव । आत्मनेपदाकर्मकः । व्यकार्षीत् सैन्धवं चैत्रः वल्गयति स्मेत्यर्थः । व्यकृत सैन्धवः स्वयमेव । विकरोति धातुर्वल्गनेऽन्तभूतणिगर्थः कर्मस्थक्रियः।
सृजः श्राद्धे जिक्यात्मने तथा ॥३॥४॥८४॥
सृजो धातोः श्रद्धावति कर्तरि जिक्यात्मनेपदानि स्युः । तथा यथापूर्वविहितानि । असर्जि मालां धार्मिकः । सृज्यते मालां धार्मिकः । स्रक्ष्यते मालां धार्मिका।