SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३८० ञिणवि घन || ४ | ३ | १०१ ॥ हन्तेर्धातोः । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशे । अवधि | अवधिषाताम् । अघानिष्यत । अहनिष्यत । गृह्यते । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् । अग्राहिदम् । अग्राहिध्वम् । अग्रहीध्वम् । अग्रहीम् | जगृहे । ग्राहिषीष्ट । ग्राहिषीम् । ग्रहीषीदम् २ | ग्राहिता । ग्रहिता । ग्राहिष्यते । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्वान्नादन्तः । अहक्षाताम् । ददृशे । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । दशिष्यते । द्रक्ष्यते । गिरतेरयतन्यां ध्वनि चतुरधिकशतम् । तथाहि । भिटी न दीर्घः । अगारिध्वम् । पक्षे विटि वृतो नवे ( ४|४|३५ ) ति वा दीर्घः । अगरिध्वम् । अगरीध्वम् । एषां त्रयाणां त्वं ढत्वं द्वित्वत्रयं चेति पञ्चवैकल्पिकानि इति षण्णवतिः । इसिजाशिषोरात्मने (४/४/३६) इति विकल्पादि भावे ऋवर्णादि (४/३/३६ ) ति कित्वम् । ऋतां क्कुितीर् (४|४|११६) भ्वादेर्नामिन ( २।१।६३ ) इति दीर्घः । नम्यन्तात्परोक्षायतन्याशिषो धो ढ ( २२११८० ) इति नित्यं दत्वम् । अगीर्द्धम् । ढवमानां द्वित्वविकल्पेऽष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्या सिद्धा । वेदि दीर्घे भवदीर्घे लत्वे द्वित्वत्रये तथा । विकल्पेनेष्टरूपाणां शतं वेदाधिकं मतम् ॥ १ ॥ प्रयोक्तृव्यापारे णिम् कर्मणि क्यः णिलुक् च । शम्यते मोहो देवदत्तेन । घटादे खो दीर्घस्तु वा ञिणम्परे (४/२/३४ ) इति शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते यङन्ताण्णिचि । शंशम्यते । अशंशामि । अशंशमि । शंशामिता । शंशमिता । शंशमयिता । यङ्लुबन्ताणिचि अध्येवम् । भाष्यमते त्रिटिदीर्घो नेति विशेषः । व्यन्तत्वाभावे शम्यते मुनिना । अशामि । अशमि । अमोऽकम्यमिचमः (४/२/२६ ) आचामि । अकामि । अवामि । वध हिंसायां व्यञ्जनान्तः । न जनवध ( ४३/५४ ) इति न वृद्धि: अवधि | जागुर्णिणवि ( ४३३५२ ) इति वृद्वौ अजागारि । 1 भञ्जे वा ॥ ४|२२४८ ॥ भञ्जरुपान्त्यस्य त्रौ परे वालुकू स्यात् । अभाजि । अभञ्जि । ञिखणमोर्वा ||४|४|१०६॥ लभते खूणमि च परे स्वरात्परो नोऽन्तो वा स्यात् । अलम्भि । अलाभि । I उपसर्गात्खलघञोश्च ॥ ४|४|१०७ ॥ उपसर्गात्परस्य लभतेः खल्घञोश्च तथा ञिखणमोः परयोः खरात्परोऽनोउन्तो भवति । प्रालम्भि । द्विकर्मकाणां तु — 'गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः । न्यादीनां कर्मणो मुख्यस्योतत्वे प्रत्यया यथा ॥ १ ॥ गत्यर्थाकर्मकाणां णिगन्तानां मुख्यकर्मणि । बोधाहारार्थशब्दकर्मकाणां तु ण्यन्तानामुभयत्र ॥ २ ॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy