SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३७९ इश्व स्थादः || ४|३|४१॥ अदिषाताम् | अदिषत । ददे । दायिषीष्ट । दासीष्ट । दायिता । दाता । दायिष्यते । दास्यते । अनुपूर्वत्वे सकर्मकस्य भूधातोः । अनुभूयते सुखं खामि ना | अनुभूयसे त्वं मया शास्त्री । अनुभूयेऽहं जनैर्ज्ञानी । अन्वभावि भवो भवता । ण्यन्तत्वे । भाव्यते । णेलुकि । अभावि । अभाविषाताम् । अभावयिषाताम् । भावयाश्चक्रे । भावयाम्बभूवे । भावयामहे । परोक्षायामेकारे न हकार इति पाणिनिः । भाविषीष्ट । भावविषीष्ट । भाविता । भावयिता । भविष्यते । भावयिष्यते । सन्नन्तत्वे तु । बुभूष्यते । अबुभूषिष्ट । बुभूषाञ्चक्रे । बुभूविषीष्ट । वुभूषिता । बुभूषिष्यते । यङन्ते । बोभूय्यते । अबोभूयिष्ट । बोभूयाश्च । बोभूयिषीष्ट । बोभूयिष्यते । यपि । अबोभूविष्ट । बोभूयाश्चक्रे । षोभाविषीष्ट । बोभविता । बोभाविता । स्तूयतेऽर्हन् । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । तुष्टुवे । स्ताविषीष्ट । स्तोषीष्ट । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । क्याशी ||४|३|१०॥ संयोगादृदन्ताद्धातोरर्तेश्च क्ये यङि आशिषि ये गुणः स्यात् । अर्यते । स्मर्यते । आरिता । अर्ता । परत्वान्नित्यत्वाश्च भिट् । संस्क्रियते । औपदेशिकसंयोगग्रहणात्क्यङाशीर्ये (४|३|१० ) इति न गुणः । नो व्यञ्जने (४/२/४५ ) ति न लुक् । स्रस्यते । उदित्वात् । नन्द्यते । नात्र नस्य लुक् । यत्रादेर्वृति । इज्यते । कृिति यि शय् ||४ | ३ |१०५ ॥ शीङः । शय्यते । तनः क्ये ||४ |२|६३॥ अस्य आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये न वा ||४|२|६२॥ जायते । जन्यते । सायते । सन्यते । खायते । खन्यते । तपः कर्त्रनुतापे च ॥ ३४९१ ॥ तपेर्धातोः कर्मकर्तर्यनुतापे चार्थे ञिच न स्यात् । अनुतापग्रणाद्भावे कर्मणि च । अन्ववातस कितवः स्वयमेव । कर्तरि । अतप्त तपांसि साधुः । अनुतापेच | अन्यतप्त चैत्रेण । अन्ववातप्त पापः पापकार्येण । पापकार्य कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मण्यद्यतनी । धीयते । अधायि । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । हन्यते ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy