________________
३७८ अथ भायोक्तिकर्मोक्तिरूपद्विविधवक्तोक्तिसाधनम् । यथा तत्र तत्साप्यादिना आत्मनेपदमेव ।
__ क्यः शिति ॥३।४७०॥ सर्वस्माद्धातोर्भावकर्मविहिते शिति क्यः स्यात् । अत्र कर्मणः प्रत्ययेनोक्तस्वात् क्रियायाः कर्मापेक्षार्थवचनानि । पठ्यते ग्रन्थः । पठ्येते श्लोकौ । पठ्यन्ते शास्त्राणि । भावो भावना। उत्पादना किया। सा च धात्वर्थेन सर्वधातुवाच्या। भावार्थप्रत्ययेन सैवानूद्यते । युष्मदस्मन्यां सामानाधिकरण्याभावादन्यदर्थ एव । विभक्तिवाच्याया भावनाया अद्रव्यरूपत्वेन द्विवाद्यप्रतीते न द्विवचनादि किन्तु एकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपक्षेत्वात् । अनुक्तत्वात्कतेरि तृतीया । त्वया मया अन्यैश्च भूयते । अद्यतन्याम् ।।
भावकर्मणोः ॥३।४।६८॥ सर्वस्माद्धातो वकर्मविहिते अद्यतन्यास्ते परे भिचप्रत्ययः स्यात्तलुक् च । स्वरग्रहशहन्भ्यः स्यसिजाशीःश्वस्तन्यां
जिट् वा ॥३।४।६९॥ खरान्ताबहादेश्च विहितेषु भावे कर्मणि चार्थे स्यसिजाशीश्वस्तनीषु भिट्प्रत्ययो वा स्यात् । अनिटां धातूनामिडिधानार्थ सेटां धातूनामिटो बिटकथनात्पाक्षिकवृद्धिविधानार्थमिदं सूत्रम् । अभावि । भाविषीष्ट । भविषीष्ट । भाविता । भविता । भाविष्यते । भविष्यते । अभाविष्यत । अभविष्यत । परोक्षायां बभूवे । पठ्यते । अपाठि । अपठिषाताम् । अपठिषत । पेठे। पठि. षीष्ट । पठिता । पठिष्यते । अपठिष्यत ।
रिः शक्याशीयें ॥४॥३॥११०॥ क्रियते । अकारि । अकारिषाताम् । अकृषाताम् । अकारिषत । अकृषत । चक्रे । कारिषीष्ट । कृषीष्ट । कर्ता । कारिता । करिष्यते । कारिष्यते । अकारिष्यत । अकरिष्यत।
ईर्व्यञ्जनेऽयपि ॥४॥३९७॥ गीयते । पीयते । स्थीयते । सीयते । दीयते ।
आत ऐः कृऔ ॥४॥५३॥ आदन्तस्य धातोणिति कृति प्रौ च ऐः स्यात् । अदायि। अदायिषाताम् । पक्षे ।