SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ परस्मैपदं स्यात्। चलयति । कम्पयति शाखाम् । गमयति ग्रामंगाश्चैत्रः। आहारार्थेभ्यः। निगारयति भोजयति आशयति चैत्रमन्नम् । सूत्रमध्यापयति शिष्यम् । बोधयति पा रधिः। योधयति काष्ठानि । प्रावयति राज्यम् । प्रापयतीत्यर्थः। द्रावयति लोहम् । विलापयतीत्यर्थः । स्रावयति तैलम् । स्यन्दयतीत्यर्थः । नाशयति पापम् । जनयति पुण्यम् । पुद्रुस्खूणामचलनार्थ शेषाणां सकर्मकार्थममाणिकत्रकार्थ च वचनम् । अणिगि प्राणिकर्तृकानाप्याण्णिगः ॥३३१०७॥ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्तात्परस्मैपदं स्यात् । आस्ते मैत्रः । आसयति मैत्रम् । शेते मैत्रः । शाययति मैत्रम् । परिमुहायमायसपाट्धेवदवसदमादरुचनृतः फलवति ॥३३३९४॥ फलवतीति भूग्नि अतिशये वा मतुः । यक्रियायाः फलमोदनादि यवर्थमियमारभ्यते तद्वति कर्तरि विवक्षिते परिपूर्वान्मुहेराङ्पूर्वाभ्यां यमियसिभ्यां पिबति धेटवदवसदमादरुचनृतिभ्यश्च णिगन्तेभ्यः कर्तर्यात्मनेपदं स्यात् । परि. मोहयते चैत्रम् । आयामयते सर्पम् । आयासयते मैत्रम् । पाययते बटुम् । धापयते शिशुम् । वादयते बालम् । वासयते पान्थम् । स्थापयतीत्यर्थः । दमयतेऽश्वम् । आदयते चैत्रेण । गतिबोधादिसूत्रे आदिवर्जनात् अफलवति आद. यत्यन्नं बटुना चैत्रः । आदेर्नेच्छन्त्यन्ये । आदयति चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । क्य क्षो न वा ॥३॥३॥४३॥ तथैवोदाहृतम् । निद्रायति । निद्रायते वा। धुद्धयोऽद्यतन्याम् ॥३३॥४४॥ अद्युतत् । अयोतिष्ट । अरुचत् । अरोचिष्ट । वृद्धयः स्यसनोः ॥३॥३॥४५॥ वस्य॑ति । वर्तिष्यते । विवृत्सति । विवर्तिषते। कृपः श्वस्तन्याम् ॥२३॥४६॥ कल्सासि । कल्पितासे । चिक्लप्स्यति । चिकल्पिषते । चिकल्प्सते । इति त्रैरूम्यम् ॥ इति पदव्यवस्था । चं.प्र. ४८
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy