________________
पदान्तरगम्ये वा ॥३॥३३९९॥ अनन्तरसूत्रपञ्चकेन यदात्मनेपदमुक्तं तत्पदान्तराद्गम्ये फलवति कर्तरि वा स्यात् । खं शत्रु परिमोहयति परिमोहयते वा। खं यज्ञं यजति यजते वा । खं कटं करोति कुरुते वा । खमश्वं गमयति गमयते वा । खं शिरः कण्डूयति कण्डूयते वा। खां गां जानाति जानीते वा । खं शत्रुमपवदति अपवदते वा । खान बीहीन संयच्छति संयच्छते वा । इत्यात्मनेपदविधयः॥
अथ परस्मैपदविधयः ।
शेषात्परस्मै ॥३३॥१०॥ कर्तरि । भवति।
परानोः कृगः ॥३।३।१०१॥ फर्तरि परस्मैपदं स्यात् । पराकरोति । अनुकरोति ।
प्रत्यभ्यतेः क्षिपः ॥३॥३३१०२॥ प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति । ईदित्वात्कर्तरि फलपति प्राप्तस्यापवादोऽयम् । एवमुत्तरसूत्रद्वयेऽपि ।।
प्राद्वहः ॥३३॥१०३॥ प्रवहति ।
परेम॒षश्च ॥३३॥१०४॥ परिपूर्वान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् । परिमृष्यति । परिवहति । यौजादिकस्य परिमर्षति ।
व्यापरे रमः ॥३३॥१०५॥ परस्मैपदं कर्तरि । विरमति । आरमति । परिरमति । इदिस्वादात्मने.
वोपात् ॥३३॥१०६॥ वा परस्मैपदं स्यात्। भार्यामुपरमति उपरमते वा । अन्तर्भूतणिगर्थोरमिरकमकः । उपरमति । उपरमते वा सन्तापः । उपरमति उपरमते वा पापात्।। चल्याहारार्थबुधयुधग्रुद्रुखुनशजनः ॥३॥३॥१०८॥ चलेरर्थः कम्पनम् । तदर्थेभ्य आहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि
पदापवादः।