________________
३७५
स्मिङः प्रयोक्तुः स्वार्थे ||३|३|९१ ॥
प्रयोक्तुः सकाशाद्यः स्वार्थः समयस्तत्र वर्तमानाण्णिगन्तात्मायतेः कर्तर्यारमनेपदं स्यात् । अस्य चान्तस्याकारोऽकर्तर्यपि स्यात् । जटिलो विस्मापयते ।
विभेतेषु च ॥३|३|९२ ॥
पयन्ताद्विभेतेः कर्तर्यात्मनेपदं स्यात् प्रयोक्तः स्वार्थे अस्य च भीषादेशः । पक्षे तस्याकारश्चाकर्तर्यपि । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः खार्थ इत्येव । कुञ्चिकया भाययति ।
प्रलम्भे गृधिवचेः ॥३३॥८९॥
आभ्यां णिगन्ताभ्यां वञ्चनेऽर्थे कर्तर्यात्मनेपदं स्यात् । बहुं गर्धयते । वञ्चयते ।
लीलिनोऽर्चाभिभवे चाच्चाकर्तर्यपि ||३|३|९०॥
लियतिलिनातिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे कर्तर्यात्मनेपदं स्यात् । अनयोश्चान्तस्या कर्तर्यप्याकारः स्यात् । जदाभिरालापयते । परैरात्मानं पूजयतीत्यर्थः । श्येनो वर्तिकामपलापयते । अभिभवतीत्यर्थः । कस्त्वामुल्लापयते । वञ्चयते इत्यर्थः ।
मिथ्याकृगोऽभ्यासे ||३|३|९३ ॥
मिथ्या शब्दयोगे कृगो णिगन्तादभ्यासार्थे कर्तर्यात्मनेपदं स्यात् । पर्द मिथ्या कारयते । खरादिदोषदुष्टमसकृदुच्चारयति ।
वदोऽपात् ||३|३|९७॥
फलवति कर्तरि वदतेरात्मनेपदं स्यात् । न्यायमपवदते । फलवतीत्येव । अपवदति परं स्वभावतः ।
समुदाङोयमेरग्रन्थे ||३|३|९८ ॥
एभ्यः पराद्यमोऽग्रन्थविषये प्रयोगे फलवति कर्तरि आत्मनेपदं स्यात् । व्रीहीन संयच्छते । भारमुद्यच्छते । आयच्छते वस्त्रम् । फलवतीत्येव । संयच्छति परस्य वस्त्रम् । अग्रन्थ इति किम् ? वेदमुद्यच्छति । अधिगन्तुमुद्यमं करोतीत्यर्थः ।
ज्ञोऽनुपसर्गात् ॥ ३३॥९६॥
फलवति कर्तरि आत्मनेपदं स्यात् । गां जानीते ।