________________
३७४
प्राग्वत् सनः ||३|३|७४॥
शिशयिषते । एदविषते । निविविक्षते । शिशत्सति । मुमूर्षति । अत्र हि न शदि म्रियति एव निमित्ते किन्तु शदेः शित् । म्रियतेरयतन्यादि चे (३श३४२) ति नात्मनेपदम् ।
आमः कृगः || ३|३|७५ ॥
ईहाञ्चक्रे । एधाञ्चक्रे । कृग इति किम् ? एधांबभूव । बिभराञ्चक्रे । बिभराशकारेति द्वयमपि । पापचाश्चक्रे । पापचाञ्चकार ।
उत्स्वराद्युजेरयज्ञतत्पात्रे ||३|३|२६||
उदः खरान्ताचोपसर्गात्पराद्युक्तेः कर्तर्यात्मनेपदं स्यात् । यज्ञतत्पात्रवजैम् । उलुङ्क्ते । उपयुङ्क्ते । नियुङ्क्ते । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ।
समः क्ष्णोः ॥३॥३॥२९॥
सम्पूर्वात्क्ष्णोतेः कर्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । उत्तेजयतीत्यर्थः । भुनजोऽत्राणे ॥३३॥३७॥
प्राग्वत् । ओदनं भुङ्क्ते । अत्राण इति किम् ? भुनक्ति नृपः । इह पालनं भुजेरर्थः ।
अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ ॥३३॥८८॥
प्रयोक्तृव्यापारे णिगुक्तः, अणिगवस्थायां कर्म णिगवस्थायां कर्ता यस्य सोऽणिकर्मणिकर्तृकः । तस्माण्णिगन्ताद्धातोरस्मृती वर्तमानात्कर्तर्यात्मनेपदं स्थात् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयते हस्ती हस्तिपकान् । आस्कन्दत इत्यर्थः । अणिमिति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयति हस्तिपकान् महामात्रः । आरोहयन्ति महामात्रं हस्तिपकाः । अत्र द्वितीयणिगन्तकर्तर्यपि माभूत् आत्मनेपदम् । प्रथमणिकर्मत्वात् । कर्मेति किम् ? करणादेः कर्तृत्वे मात् । पश्यन्ति भृत्याः प्रदीपेन । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? यस्यणिक् तस्यैव कर्म कर्ता स्यात् । ततो णिगन्तान्मा भूत् । लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव । तं प्रयुङ्क्ते । लावयति केदारं चैत्रः । कर्तृग्रहणं किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानेनमारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तान् आरोहयते हस्तीत्यणिगवस्थायां मा भूत् । अस्मृताविति किम् ? स्मरति वनगुल्मं कोकिलः । स्मरयत्येनं वनगुल्मः ।
I