________________
अनुवदते चैत्रो मैत्रस्य । अनुवदते आचार्यस्य शिष्यः । व्यक्तवाचामित्येव । अनुवदति वीणा।
समो गिरः ॥३२॥६६॥ प्रतिज्ञायां प्राग्वत् । संगिरते । अन्यत्र संगिरति प्रासम् । गिर इति निर्देशाढणातेन स्यात् ।
__ अवात् ॥३॥३॥६७॥ गिरतेः प्राग्वत् । अवगिरते । नेह । अवगृणाति । अवपूर्वस्य गृणातेः प्रयोगो नास्तीत्यन्ये ।
उदश्वरः साप्यात् ॥३॥३॥३१॥ गुरुवचनमुच्चरते । व्युत्क्राम्यतीत्यर्थः । साप्यादिति किम् ? धूम उच्चरति । उर्द्ध गच्छतीत्यर्थः ।
समस्तृतीयया ॥३३॥३२॥ प्राग्वत् । रथेन संचरते। दामः सम्प्रदानेऽधयें आत्मने च ॥२॥२॥५२॥ दास्या सम्प्रयच्छते।
अननोः सनः ॥३॥३॥७॥ सन्नन्तावानातेः कर्तर्यात्मनेपदं स्यात् । अनुपूर्वोत्तु न । धर्म जिज्ञासते। कथमौषधस्यानुजिज्ञासते । अकर्मकात्प्राग्वदिति भविष्यति।
श्रुवोऽनाङ्मतेः ॥३॥३७१॥ सन्नन्तात् शृणोतेः प्राग्वत् । नाप्रतिपूर्वात् । शुश्रूषते गुरुन् । संशुश्रूषते शब्दान् । चैत्रं प्रति शुश्रूषते । अत्र प्रतेर्धातुना न सम्बन्धः ।
स्मृदृशः ॥३॥३॥७२॥ आभ्यां सन्नन्ताभ्यां कर्तर्यात्मानेपदं स्यात् । सुस्मूर्षते जिनम् । दिहक्षते देवम् ।
शदेः शिति ॥३३॥४१॥ शीयते । शिति किम् ? शत्स्यति ।
म्रियतेरद्यतन्याशिषि च ॥३॥३॥४२॥ अमृत । भृषीष्ट । नियते।