________________
३७२
आङो ज्योतिरुद्गमे ॥३३॥५२॥ तथैव । आक्रमते सूर्यः । उदयते इत्यर्थः ।
क्रमोऽनुपसर्गात् ॥३॥३॥४७॥ विकल्पेनात्मनेपदम् । क्रमते कामति वा ।
निह्नवे ज्ञः ॥३॥३॥८६॥ शतमपजानीते । अपलपतीत्यर्थः ।
ज्ञः॥३३॥८२॥ जानातरात्मनेपदं स्यादसति कर्मणि । सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तते इत्यर्थः।
सम्प्रतेरस्मृतौ ॥३॥३॥६९॥ शतेन शतं वा सञ्जानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अस्मृताविति किम् ? मातुर्मातरं वा संजानाति । स्मरतीत्यर्थे । कर्मणः शेषत्वविवक्षायां षष्ठी। दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे
वदः ॥३॥३॥७८॥ दीत्याद्यर्थे गम्यमाने वदतेः कर्तर्यात्मनेपदं स्यात् । वदते विद्वान् स्थाद्वादे। वस्तुतत्त्वोपलम्भनाद्दीप्यमानो वक्तीत्यर्थः । ज्ञानमवबोधः । शास्त्रं वदते । वक्तुं शास्त्रं जानाति । यत्न उत्साहः । तपसि वदते । तत्रोत्सहते । विमति नामतप्रतिपत्तिः । धर्मे विवदन्ते । विविधं जल्पन्तीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपक्दते । सान्त्वयति मधुरालापेन । उपमन्त्रणं रहस्युपच्छन्दनम् । उपवदते कुलभार्याम् । उपलोभयति।।
व्यक्तवाचां सहोक्तौ ॥३३॥७९॥ प्राग्वत् । संप्रवदन्ते ग्राम्याः । सम्भूय शब्दं कुर्वन्तीत्यर्थः ।
विवादे वा ॥३॥३३८०॥ विरुद्धार्थी वादो विवादः । व्यक्तवाचां सहोक्तौ प्राग्वत् । संप्रवदन्ति संप्रवदन्ते वा मौहूर्ताः । परस्परप्रतिषेधेन युगपद्विरुद्धं वदन्तीत्यर्थः ।।
.. अनोः कर्मण्यसति ॥३॥३॥८॥ अनुवदतेः कर्मण्यसति आत्मनेपदं स्यात् । अनुः सादृश्ये पधादर्थे वा।