________________
३७१ वेः कृगः शब्दे चानाशे ॥३३॥८५॥ विपूर्वादनाशार्थवृत्तेः कृगश्चात्मनेपदमसति कर्मणि शब्दे च कर्मणि । विकुर्वते सैन्धवाः । शोभनं वल्गन्तीत्यर्थः । शब्दे कर्मणि कोष्टा विकुरुते खरान् । नानोत्पादयतीत्यर्थः। पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये
नियः ॥३३॥३९॥ पूजाचार्यकभृतिषु यथासंख्यं कर्मकर्तृधात्वर्थविशेषणेषु गम्यमानेषु उत्क्षेपादिषु च धात्वर्थेषु वर्तमानान्नयतेः कर्तर्यात्मनेपदं स्यात् । पूजा सन्मानः । मयते विद्वान् स्याद्वादे जीवादीन् पदार्थान् । युक्तिभिः स्थिरीकृत्य शिष्यबुद्धिं प्रापयतीत्यर्थः । ते हि युक्तिभिः स्थिरीकृताः पूजिताः स्युः । आचार्यस्य भावः कर्म वा आचार्यकम् । तस्मिन्माणवकमुपनयते । स्वयमाचार्यों भवन् माणवकमध्ययनायात्मसमीपं प्रापयतीत्यर्थः । भृतिवेतनम् । तत्र कर्मकरानुपनयते । बेतनेनात्मसमीपं प्रापयतीत्यर्थः । शिशुमुदानयते । उपक्षिपतीत्यर्थः । ज्ञानं प्रमेयनिश्चयः । नयते तत्त्वार्थे । तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनमृणादेः शोधनम् । मद्राः करं विनयन्ते । राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु व्यापारणम् । शतं विनयते । धर्मार्थ तीर्थेषु विनियुङ्क्ते ।
कर्तृस्थामूर्ताप्यात् ॥३३॥४०॥ कर्तृस्थममूर्तं कर्म यस्य तस्मान्नयतेः कर्तर्यात्मनेपदं स्यात् । श्रमं विनयते ।
वृत्तिसर्गतायने ॥३॥३॥८६॥ वृत्त्याचर्थवृत्तेः क्रमः कर्तर्यात्मनेपदं स्यात् । वृत्तिरप्रतिबन्धः, आत्मयापनं वा । शास्त्रे क्रमते बुद्धिः। तत्र न प्रतिहन्यते । आत्मानं यापयति वेत्यर्थः । सर्ग उत्साहः । तात्पर्यमनुज्ञा वा। सूत्राय क्रमते । तदर्थमुत्सहते । तायनं स्फीतता संतानः पालनं वा । क्रमतेऽस्मिन् योगाः । स्फीता भवन्तीत्यर्थः।
परोपात् ॥३॥३॥४९॥ वृत्त्याद्यर्थेषु क्रमः प्राग्वत् । पराक्रमते । उपक्रमते । नियमार्थमिदम् । नेह । अनुक्रामति । अन्ये तु वृत्यायभावेऽपीच्छन्ति ।
वेः स्वार्थ ॥३॥३॥५०॥ स्वार्थः पादविक्षेपः। तदर्थेऽपि क्रमस्तथा । साधु विक्रमते गजः।
__ प्रोपादारम्भे ॥३॥३॥५१॥ तथा । प्रक्रमते भोक्तुम् । उपक्रमते पवितुम् ।