________________
३७०
गमो वा ||४|३|३७॥
गमः परावात्मनेपदे सिजाशिषौ किद्वा स्तः । संगसीष्ट । संगसीष्ट । समगत । समगंस्त । समगंसाताम् । समृच्छते । समृच्छिष्यते । संपृच्छते । संटते । ज्ञानार्थे विदुः ॥ ॥ संवित्ते । संविदाते । संविदते । अर्तीति भ्वादेरदादेश्च ग्रहणम् । समियते । सम्पश्यते । संखरते । मासमृत । मासमृषाताम् । मासमृषत | समार्त । समार्षाताम् । समार्पत इति च भ्वादेः इयर्तेस्तु मास मरत । मा समताम् । मा समरन्त । समारत । समारताम् । समारन्तेति । अत्र निगम्यादीनां कथमकर्मकतेति चेत् । "धातोरर्थान्तरे वृत्ते र्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १ ॥" वहति भारम् । नदी वहति । स्यन्दते इत्यर्थः । जीवति नृत्यति वा चैत्रः । अत्र जीव प्राणधारणे नृतैच् गात्रविक्षेपे अनयोर्धारणविक्षेपरूपे धात्वर्थेऽपि संग्रहादकर्मकत्वम् । प्रसिद्धेर्यथा मेघो वर्षति । वह्निर्ज्वलति । कर्मणोऽविवक्षातो यथा - हितान्न यः संशृणुते स किं प्रभुः । उपसर्गादस्योहो वा ॥३॥३॥२५॥
I
कर्तर्यात्मनेपदं वा स्यात् । विपर्यस्यति । विपर्यस्यते वा । समूहति । समूहते वा । उपसर्गादृहो ह्रस्वः |४| ३|१०६| यादौ क्ङिति । समुयात् । ह्रः स्पर्धे ||३|३|५६॥
मल्लो मल्लमाह्वयते । संनिवेः ||३|३|५७॥ संहृयते । उपात् ||३|३|५८|| तथा । उपह्वयते ।
गन्धनावक्षेप सेवासाहसप्रतियत्नप्रकथनोपयोगे ||३|३|७६॥
गन्धनादिवृत्तेः कृगः कर्तर्यात्मनेपदं स्यात् । गन्धनं परद्रोहाभिप्रायेण परदोषोद्घाटनम् । प्रोत्साहनादिकमित्यन्ये । उत्कुरुते मां जिघांसुः । उपकर्त्रे कथयतीत्यर्थः । अवक्षेपो भर्त्सनम् । दुष्टानवकुरुते । धिक्करोति । महामात्यानुपकुरुते । सेवते । साहसमविमृश्य प्रवृत्तिः । परदारान् प्रकुरुते । तेषु सहसा प्रवर्तते । प्रतियतः सतो गुणान्तराधानम् । एधो दकस्योपस्कुरुते । प्रकथनं कथनप्रारम्भः । जनापवादान् प्रकुरुते । वक्तुमारभते इत्यर्थः । उपयोगो धर्मादौ विनियोगः । शतमुपकुरुते । धर्मादौ विनियुङ्क्ते ।
अधेः प्रसहने ||३|३|७७॥
प्रसहनं पराभिभवः । क्षमोपि । तं हाधिचक्रे । भवादृशाश्वेदधिकुर्वते रतिम् परान् । क्षमन्ते इत्यर्थः ।