SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ वा लिप्सायाम् ॥३॥३॥६१॥ भिक्षुर्धनिनमुपतिष्ठति उपतिष्ठते वा। उपात् स्थः ॥३॥३३८३॥ उपपूर्वात्तिष्ठतेरसति कर्मणि तथैव । भोजनस्य समये उपतिष्ठते । सन्निहितो भवतीत्यर्थः। व्युदस्तपः ॥३३॥८७॥ कर्मण्यसति खेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं स्यात् । उत्तपते । वितपते रविः । दीप्यते इत्यर्थः । उसपते वितपते पाणिम् । हस्तं तापयतीत्यर्थः । व्युद इति किम् ? निष्टपति। निसस्तपेऽनासेवायाम् ॥२॥३॥३५॥ सस्य षत्वं स्यात् । इति षत्वम् ।। आङो यमहनः खेऽङ्गे च ॥३॥३॥८६॥ असति कर्मणि खेऽङ्गे च कर्मणि प्राग्वत् । आयच्छते । आहते । आयच्छते पादम् । आहते शिरः। अद्यतन्यां वात्वात्मने (४४२२२) इति वा वधादेशः। आवधिष्ट । आवधिषाताम् । हनः सिच् ॥४॥३॥८६॥ __ हनः पर आत्मनेपदे सिन् कित् । नकारलुक् । आहत । आहसाताम् । आहसत। यमः सूचने ॥४॥३॥३९॥ परदोषाविष्करणार्थवृत्तेर्यमः परः सिच् आत्मनेपदे कित्स्यात् । यमिरमिनमिगमीत्य ।४।२।१५। नेन नकारलुक । आयत । आयसाताम् । यमः स्वीकारे ॥३॥३॥५९॥ उपपूर्वादात्मनेपदं स्यात् । कन्यामुपयच्छते । वेश्यामुपयच्छते । उद्वाह एवेछन्त्यन्ये। __ वा स्वीकृतौ ॥४॥३॥४०॥ सिच् कित् । उपायत । उपायंस्त महास्त्राणि । उपायंस्त कन्याम् । समोगमृच्छिप्रच्छिशुवित्स्वरत्यर्तिशः॥३३३३८४॥ समः परेभ्यो गम्यादिभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । चं.प्र. ४७
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy