________________
अपस्किरः ॥३३॥३०॥ अपपूर्वास्किरते: सस्सट् कात् प्राग्वत् । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्ष्यार्थी । श्वाश्रयार्थी च। अपाचतुष्पात्पक्षिशुनिहष्टान्नाश्रयार्थे ॥४॥४९५॥ अपात्परस्य किरतेः स्सडादिः स्यात् । इति स्सट् ।
नुप्रच्छः ॥३३॥५४॥ आपूर्वाभ्यामाभ्यां धातुभ्यामात्मनेपदं स्यात् । आनुते । आपृच्छते ।
शप उपलम्भने ॥३॥३॥३५॥ उपलम्भनं प्रकाशनं ज्ञापनम् । तदर्थवृत्तेः शपः प्राग्वत् । मैत्राय शपते । मैत्रं कश्चिदर्थ योधयतीत्यर्थः ।
संविप्रावात् ॥३॥३॥१३॥ एभ्यः परात्तिष्ठतेः प्राग्वत् । सन्तिष्ठते । वितिष्ठते ।
प्रतिज्ञायाम् ॥३॥३॥६५॥ अभ्युपगमार्थवृत्तस्तिष्ठतेः प्राग्वत् । नित्यं शब्दमातिष्ठते । अयमाइपूर्व एव प्रतिज्ञार्थे । नित्यमेव शब्द प्रतिजानीत इत्यर्थः ।
ज्ञीप्सास्थेये ॥३॥३॥६४॥ परतोषाय रूपादिप्रकाशनं ज्ञीप्सा । स्थेयो विवादे प्रमाणं पुरुषः । तदर्थवृत्तस्तिष्ठतेः प्राग्वत् । गोपी कृष्णाय तिष्ठते । खाशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीनिणेतृत्वेनाश्रयतीत्यर्थः।
ऊदोनूइँहे ॥३३॥१२॥ ऊर्ध्व विना य ईहश्चेष्टा तद्वत्तेरुदः परात्तिष्ठतेः प्राग्वत् । मुक्तावृत्तिष्ठते । . अनूर्व इति किम् ? पीठादुत्तिष्ठति । .
देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्र
करणे स्थः ॥३३॥६॥ उपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । जिनमुपतिष्ठते । रथिकानुपतिष्ठते । मैव्या हेतुनाऽऽराधयति । यमुना गङ्गामुपतिष्ठते । अयं पन्था दिल्लीमुपतिष्ठते । मन्त्रः करणं यस्यार्थस्य । सावित्र्या सूर्यमुपतिष्ठते । आराधयतीत्यर्थः । अन्यत्र यौवनेन पतिमुपतिष्ठति । उपगच्छति ।