SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३१७ परिव्यवाक्रियः ॥३॥३॥२७॥ ईगितोऽत्र फलवतोऽन्यत्र विधिः । परिक्रीणीते। विक्रीणीते। अवक्रीणीते। परावेजेंः ॥३३॥२८॥ पराजयते । विजयते। दागोऽस्वास्यप्रसारविकासे ॥३३॥५३॥ आपूर्वाइदाते: कर्तर्यात्मनेपदं स्यात् । न चेत्स्वमुखप्रसारो विकाशचार्थः स्यात् । धनमादत्ते । अवास्येत्यादि किम् ? उष्ट्रो मुखं व्यावाति । प्रसारयति । विकास इति किम् ? विपादिकां व्याददाति । चिकित्सतीत्यर्थः । व इति किम् ? व्यावदते पिपीलिकाः पतङ्गस्य मुखम् ।। __क्रीडोऽकूजने ॥३॥३॥३३॥ क्रीडा सम्पूर्वादात्मनेपदम् । संक्रीडते । कूजने तु संक्रीडति चक्रम् । अन्वाङपरेः ॥३॥३॥३४॥ अन्वादिभ्यः परात् क्रीडतेः कर्तर्यात्मनेपदं स्यात् । अनुक्रीडते। आक्रीडते। परिक्रीडते । उपसर्गादित्येव । माणवकमनुक्रीडति । तेन सह क्रीडतीत्यर्थः । गमेः क्षान्तौ ॥३॥३॥५५॥ आपूर्वादण्यन्ताद्गमयतेः क्षान्त्यर्थे प्राग्वत् । आगमयते गुरून् । कश्चित्कालं प्रतीक्षते इत्यर्थः। शको जिज्ञासायाम् ॥३॥३॥७३॥ ज्ञानानुसंहितार्थात् शकः सन्नन्तात् प्राग्वत् । विद्यासु शिक्षते । अहं ज्ञातुं शकुयामितीच्छतीत्यर्थः। आशिषि नाथः ॥३॥३॥३६॥ सर्पिषो नाथते । सर्पिर्मे भूयादित्याशास्ते । हगो गतताच्छील्ये ॥३॥३॥३८॥ गतं प्रकार: साहश्यम् ताच्छील्यम् । तस्य स्वभावस्तद्भावः । ताच्छील्यार्थवृत्तेहरतेः प्राग्वत् । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पैतृकं मातृकं वा ..सादृश्यं गुणतः क्रियातो वा शीलयन्ति ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy