________________
१९६
अन्यस्य ||४|११८ ॥
स्वरादेरन्यस्य व्यञ्जनादेर्नानो धातोर्द्वित्वभाज एकखरोऽवयवो यथेष्टं प्रथमो द्वितीयस्तृतीयो वाऽन्यतमो द्विः स्यात् । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीययिषति । पुत्रीयन्तं प्रायुंक्त अपुपुत्रीयत् । अपुतित्रीयत् । अपुत्रीयियत् । इन्द्रीचतेः सनि द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति । इन्द्रियथि. पति । चिचन्द्रीयिषति । चन्दिद्रीयिषति । चन्द्रियियिषति । प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति पिप्रापयिषति । प्रापिपयिषति । प्रापयियिषति । उरुम् । विवरयिषति । वररयिषति । वरयियिषति । बाढम् । सिसाधयिषति इत्यादि रूपत्रयम् । षत्वं तु नास्ति । यङ् सन् ण्यन्तात्सन् । बोभूयिषयिषति । यङ् णिच सन्नन्ताण्णिच् । बोभूययिष्यतीत्यादि । द्वित्वे पुनर्द्वित्वं न ।
पुनरेकेषाम् ||४|१|१०॥
एकेषामाचार्याणां मते द्वित्वे कृते पुनर्द्वित्वं भवति । बुबोभूययिषति । सन्नन्ताष्णिचि बुभूषयति । यङन्ताण्णिगि बोभूययति । यङ्लुबन्ताण्णिगि बोभावयति । णिमन्ताष्णिम् भावयति । ण्यन्तात्सनि विभावयिषति । सन् यङ् यङ्लुयन्तेभ्यो न यङ् । अनेकस्वरत्वात् । इति प्रत्ययमाला ॥
अथ आत्मनेपदप्रक्रिया | क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थह सोहवश्चानन्यो
न्यार्थे ||३|३|२३||
इतर चिकीर्षितायाः क्रियाया इतरेण करणं क्रियाव्यतीहारः । तस्मिन्नर्थे वर्तमानाद्वतिहिंसाशब्दार्थह सवर्जिताद्धातोर्ह वहिभ्यां च कर्तर्यात्मनेपदं स्यात् । न चेदन्योन्यार्थी अन्योन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते । व्यतिलुनते । श्रश्वात (४/२/९६ ) इत्या लुक् । अन्यस्ययोग्यं लधनं कुर्वन्तीत्यर्थः । व्यतिपुनते । व्यतिहरन्ते भारम् । सम्प्रहरन्ते राजानः । संविवहन्ते वगैः । हृवहोर्गतिहिंसार्थत्वेन निषेधे प्राते प्रतिप्रसवार्थ ग्रहणम् । असक भुवि । व्यतिस्ते । व्यतिषाते । व्यतिषते । भारत्योर्लुक (४/२/९० ) । व्यतिषे । अस्तेः सिंहस्त्वेति । सो धिया । व्यतिध्वे 1 व्यतिहे । व्यतिषीत । पञ्चम्या ऐवि व्यत्यसै । व्यत्यास्त । व्यतिराते ३ । व्यतिभाते ३ । व्यतिषभे ।
निविशः ||३|३|२४ ॥
आत्मनेपदं स्यात् । निविशते ।