________________
३६५ गरयति । तृपम् । अपयति । उरुम् । वरयति । बहुलम् । बंहयति। गुरुम् । दीर्घम् । द्राधयति । वृन्दारकम् । वृन्दयति । इति नामधातुप्रक्रिया ॥
अथ सौत्राः। धातोः कण्डादेर्यक् ॥३॥४८॥ द्विविधाः कण्डादयो धातयो नामानि च । तत्र कडादिभ्यो धातुभ्यः स्वार्थे यक्स्यात् । कण्डूयति । कण्डूयते । महीयते । मन्तूयते । धातोरिति किम् ? कण्डूः । कण्डौ । कण्डः । कण्डूग गात्रविघर्षणे ॥१॥ महीडू पूजायाम् ॥ २॥ मन्तु अपराधे ॥ ३॥ वल्गु पूजामाधुर्ययोः ॥४॥ वल्गूयति । अस् उपतापे ॥५॥ अस्यति । असूगपीत्येके । असूयति । असूयते। लेट् लोट् धौर्य पूर्वभावे खमे दीप्ती च ॥६॥ लेट्यति । लोट्यति । लेटिता । लोटिता। लेला दीप्तौ ॥७॥ इरस इरज इरम् ईर्ष्यायाम् ॥ ८॥ इरस्यति । इरज्यति । भ्वादेर्नामिन (२०११६३) इति दीर्थे । ईयेति । ईयते । उषस् प्रभातीभावे ॥ ९॥ उषस्यति । वेद धौर्ये स्वप्ने च ॥१०॥ मेधा आशुग्रहणे ॥ ११॥ मेधायति । कुषुम् क्षेपे ॥ १२॥ कुषुम्यति । मागध परिवेष्टने ॥ १३ ॥ नीचदास्ये इत्यन्ये । तन्तस् पम्पस दुःखे ॥ १४॥ सुखदुःखतक्रियायाम् ॥ १५॥ मुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । सपर पूजायाम् ॥ १६ ॥ आरर् आराकर्मणि ॥ १७॥ भिषज् चिकित्सायाम् ॥ १८ ॥ भि:
ण उपसेवायाम् ॥ १९॥ इषुध् शरधारणे ॥ २०॥ चरण वरण गतौ ॥ २१॥ खुरण चौर्ये ॥ २२॥ तुरण त्वरायाम् ॥ २३ ॥ भुरण धारणपोषणयोः ॥ २४ ॥ गगद वाक्स्खलने ॥ २५ ॥ एला केला वेला खेला विलासे ॥२६॥ खिल इत्यन्ये । लेखा स्खलने च ॥२७॥ अदन्तोऽयमित्यपरे । लिट् अल्पकुत्सनयोः ॥२८॥ लिव्यति । लाटू जीवने ॥ २९॥ हृणीङ् रोषणे लज्जायां च ॥ ३० ॥ रेखाश्लाघासादनयोः ॥ ३१ ॥ द्रवस् परितापपरिचरणयोः ॥ ३२॥ तिरस् अन्तधों ॥ ३३ ॥ अगद नीरोगत्वे ॥ ३३ ॥ उरस् बलाथै ॥ ३४ ॥ उरस्यति । बलवान् भवतीत्यर्थः। तरुण गती ॥ ३५॥ पयस् प्रस्मृतौ ॥ ३६॥ संभूयस प्रभूतीभावे ॥ ३७ ॥ अम्बर सम्बर संवरणे ॥ ३८ ॥ आकृतिगणोयम् । इति कण्डादयः ॥ कण्डूयतेः सनि सन्यरुश्चे (४।११३) ति द्वित्वे प्राप्ते ।
___ कण्डादेस्तृतीयः ॥४॥१९॥ . कण्डादेर्धातोड़िवे प्रासे एकखरस्तृतीय पवावयवो हिः स्यात् । कण्डूयियि
नाम्नो द्वितीयाद्यथेष्टम् ॥४॥१७॥ स्वरादे नो धातोद्धित्वभाजो द्वितीयादारभ्यैकखरोऽवयवो यथेष्टं द्विः स्यात् अशिश्वीयिषति । अश्वीयियिषति ।