________________
३६४ यति । वस्त्रं समाच्छादयति संवस्त्रयति । हलि कलिं वा गृह्णाति हलयति । कलयति । प्रत्यये अजहलत् । अचकलत् । सन्वगावो दीर्घश्च न । नामिनोऽकहिले (४३५१) रिति वृद्ध्यभावे समानलोपित्वात् । कृतं गृह्णाति कृतयति। तूस्तं केशजलतूलं विहरति विहन्ति वितूस्तयति । सेनयाऽभियाति अभिषेणयति । स्थासेनीत्यादीनां षः । अभ्यषेणयत् । अभिषिषणयिषति । अभ्यषिषणयिषत् । त्वच संवरणे । त्वचं गृह्णाति स्वचयति । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथु प्रथयति । ङप्रत्यये अपप्रथत् । मृदुं ब्रदयति । अमम्रदत् । भृशं कृशं दृढं भ्रशयति । कृशयति । द्रढयति अपभ्रशत् । अचक्रशत् । अदद्रढत् । पृथुमृदुभृशे (७॥४॥३९) त्यादिना ऋतोरः । ऊढिमाख्यत् औजिढत् । ढत्वादीनामसत्वात् हतिशब्दस्य द्वित्वम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊठमाख्यत् औजढत् । हतशब्दस्य द्वित्वम् । ढस्य द्वित्वे औडढत् । त्वां मां वाचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । लुगस्यादेत्यपदे (२२१११३) इत्यतः प्रागेवान्त्यस्वरादिलोपे णिति वृद्धौ पुरन्त इत्यन्ये । त्वदयति । मदयति इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्राक् त्वमादेशौ । युवामावामाचष्टे युष्मयति । अस्मयति । विद्वांसमाचष्टे विद्वयति । णिवर्जनान्नो । उदश्चमाचष्टे उदयति । अन्त्यखरादिलोपः । उदीच् तुन । णिवर्जनात् । उदायत् । प्रत्यञ्चमाचष्टे प्रताययति । अप्रतायियत् । अन्यस्ये (४।१८)ति यिशब्दस्य द्वित्वम् । सम्यश्चमाचष्टे समाययति। अससमा. यत् । तिर्यश्चमाचष्टे तिराययति । अञ्चरन्त्यखरादिलोपेनापहारेऽपि बहिरङ्गाखेनासिद्धत्वात्तिरसस्तिरिः वारद्वयमंत्यस्वरादि लोपे पूर्व अच् इत्यस्य लोपोऽ सिद्धः द्वितीयोऽपि णिनिमित्तलोपो न अंगवृत्तपरिभाषाया वा प्रत्यये समानलोपित्वादुपान्त्यहखो न । अतितिरायत् । सध्यश्चमाचष्टे सध्राययति । अससभ्रायत् । विष्वव्यञ्चमाचष्टे विष्वद्राययति । अविविष्वद्रायत् । देवयचं करोति देवदाययति । अदिदेवदायत् । अदव्यश्चम् आददद्रायत् । अदमुयश्चमाचष्टे अदमुआययति । आददमुआयत् । अमुमुयञ्चम् अमुमुआययति । आमुमुमुआयत् । भुवम् । भावयति । अबीभवत् । भुवम् । अबभुवत् । श्रियम् । अशिश्रियत् । गाम् । अजूगवत् । रायम् । अरीरयत् । नावम् । अनूनवत् । खश्वम् । स्वश्वयति । असवश्वत् । बहून् । भूययति । अबूभुयत् । भावयतीति कश्चित् । बहयतीत्यप्यन्ये । स्रग्विणम् । स्रजयति । विन्मतोणीष्ठेयसौ लुप् ॥ श्रीमती श्रीमन्तं वा श्राययति । अशिश्रयत् । पयखिनीमाचष्टे पयसयति । इहान्त्यखरादिलोपो न । तदपवादस्य विनो लुपः प्रवृत्तत्वात् । स्थूलम् । स्थवयति । दूरम् । दवयति.। दूरयतीति तु दूरमतति अयते वा दूरात् । दूरातं कुर्वति सतीत्यर्थः। केचित्तु स्थूलदूरयूनां करोत्यर्थे णो नेच्छन्ति । युवानमाचष्टे यवयति । कनयति । अन्तिकमाचष्टे नेदयति । बाढम् । साधयति । प्रशस्यम् । श्रयति । अशिअत् प्रशसयतीत्यन्ये । नेह श्रज्यो । उपसर्गस्य पृथकृतेः । वृद्धम् । ज्ययति । वर्षयति । प्रियम् । प्रापयति । स्थिरम् । स्थापयति । स्फिरम् । स्फापयति ।