________________
१६९ गतिकन्यस्तत्पुरुष इति समासः। द्वितीया असंग्रामयत शूरः इत्यादी धात्ववयवः समिति । विच्छ धातोर्वि इत्यवयवः । ततः प्रागेवाट् । उस्रामैच्छत् औस्त्रीयत् । औशरीयत् औढीयत् । लोहितादिस्वात् श्यामायति । धूमादीनां खतनावृत्तीनां प्रकृतिविकारभावाप्रतीतेश्व्यों नास्तीति तद्वसिभ्यः प्रत्ययः। अधूमवान् धूमवान् भवति धूमायति । धूमायते इत्यादि । लोहिनीशब्दादपि क्या लिङ्गविशिष्टपरिभाषया । लोहिनीयति । लोहिनीयते। कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे ॥३॥४॥३१॥
कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे धर्तमानेभ्यः क्रमणेऽर्थे क्य प्रत्ययो वा स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहते । कष्टादीनां वृत्ति विषये पापार्थानां द्वितीयान्तानां चिकीर्षायामपि क्याच्य इत्यन्ये । पापं चिकीर्षतीत्यस्य पदविग्रहे कष्टायते । सत्रायते । कक्षायते ।
रोमन्थाद् व्याप्यादुच्चर्वणे ॥३॥४॥३२॥ अभ्यवहृतं द्रव्यं रोमन्थः । उद्गीर्यचर्वणमुच्चर्वणम् । रोमन्थात्कर्मण उच्चवणेऽर्थे क्यङ्प्रत्ययो वा भवति । रोमन्थमुच्चयति रोमन्थायते गौः । उनीर्य पर्वयतीत्यर्थः । उच्चर्षण इति किम् ? कीटो रोमन्धं वर्तयति । उद्गीर्य बहिस्त्यक्तम् अपानप्रदेशानिःसृतं वा द्रव्यं रोमन्थस्तद्गुटिकां करोतीत्यर्थः।
फेनोष्मवाष्पधूमादुद्वमने ॥३४॥३३॥ फेनादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा स्यात् । फेनमुद्वमति फेनायते । बाष्पमुमति बाष्पायते ।
शब्दादेः कृतौ वा ॥३॥४॥३५॥ शब्दादिभ्यः करोत्यर्थे क्या स्यात् । णिजपवादः । शब्दं करोति शब्दा. यते । वाशब्दो व्यवस्थितविभाषायाम् । तेन णिजपि । शब्दयति ।
सुखादेरनुभवे ॥३॥४॥३४॥ साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ्मत्ययो वा स्यात् । चीवरं परिधसे परिचीवरयते । संचीवरयते । चीवराण्यर्जयति । समार्जयति था। णिज्यहुलमित्यनेन मुण्डयतीत्यादयः।
व्रताद्धजि तन्निवृत्त्योः ॥३॥४॥४३॥ व्रतं शास्त्रविहितो नियमः । व्रताड्रोजने तन्निवृत्तौ च वर्तमानास्कृगायर्थेषु णिच् स्यात् । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयोबत. यति । सायद्यान्तं मया न भोक्तव्यमिति तं करोति गृहाति वा सावधान्तं व्रत