________________
३६२ एत् । एताम् । एयुः। अतु। हो । अ । आनि । आव । आम । आत् । आताम् । आन् । आसीत् । परोक्षायाम् । अस्यादेराः परोक्षायाम् ॥ (३१६८) आ अ इति स्थिते । आतो णव औरि (४।२।१२०) ति औ । अतुसादिषु इडेत्पुसि चातो लुगि (४॥३९४) ति आलुकि । अतुः। उः । मालेवाचरति मालाति । हस्तन्याम् अमालात् । अमालासीत् । कविरिवाचरति कवयति । सिचि परस्मायि (४४४) ति वृद्धिः। अकवायीत् । गौरिवाचारीत् अगवीत् । विरिव वयति । अवायीत् । विवाय । विव्यतुः । श्रीरिव श्रयति । अश्रायीत्। शिश्राय । शिभियतुः। पितेव पितरति । आशिषि पित्रियात् । भूरिव भवति । नात्र भुवो व (४ारा४३) इति भवतेः सिज्लुप (४२१२) इति च । तत्र धातुपाठस्थस्यैव ग्रहणात् । अभावीत् । बुभाव । दुरिव द्रवति । अद्रावीत् । णिश्री (२४५८) ति न उप्रत्ययः।
अहन्पश्चमस्य कि किति ॥४॥॥१०७॥ हन्वर्जपश्चमान्तस्य धातोः खरस्य को धुडादौ च कृिति प्रत्यये दीर्घः स्यात् । अयमिवाचरति इदामति । राजेवाचरति राजानति । पन्था इव पथीनति । ऋभुक्षीणति । कदवाचरति कति । केत् । कतु । हो । क । अकत् । अकः । अकासीत् । कश्चिदाचारकावपि दीर्घत्वमिच्छतीति मतात् श्रीशब्दधदीर्घत्वे । काति । परोक्षायाम् । चको । माधवमते चक इति परोक्षाणविरूपम् । स्व इव खति । णवि । सखी । सख इतिरूपे । खामास । खानकार इत्येतत् । गौरिवाचचार गवावकार । इत्यादि मतान्तरे । अतएव पाणिनिर्मूलसूत्रे नेकाच इति न सूत्रितवान् । 'कास्प्रत्ययादाममने लिर्टि' इत्येव सूत्रितवाम् ।।
व्यर्थे भृशादेः स्तोः ॥३॥४॥२९॥ भृशादिभ्यः कर्तृभ्यश्व्यर्थे क्यङ्का स्यात्, यथासंभषं सकारतकारयोलक् च।अभृशो भृशो भवति भृशायते । उन्मनायते । अनोजस्वी ओजस्वी भवति
ओजायते । अत्र तद्वत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेन । अनोज ओजो भवतीत्येष वाक्यम् । क दिवा भूशा भवन्तीत्यत्रापि अभूततद्भावाभावान्न । सुमनम् । अस्य सलोपः। सुमनायते । चुरादौ सङ्ग्रामणि युद्धे । तत्र संग्रामेति ना. मापि । तस्मास्करोतीति णिय् । तत्सनियोगेऽनुबन्ध आसज्यते । युद्धे योऽयं प्रामशन्त इति वचनेऽपि सामर्थ्यात् संग्रामशब्दे धातुपाठे समित्यनेन युक्तः पाठः किञ्चिद् ज्ञापयति इति । तेन मनःशब्दात्मागद । खमनायत । उन्मनायते। उदमनायत । एवं चावगल्भते अवागल्मिष्टेत्यादावपि अवेत्यस्य पृथकरणं यो ध्यम् । ज्ञापकस्य सजातीयविषयत्वात् यत्रोपसर्गरूपं सकलं श्रूयते न पुनरादेशेन संयुक्तं तत्रैव पृथक्करणम् । एवं च आ ऊद ओढः । स इवाचर्य ओढायित्वावेषोऽनेन धृतः । अत्र उन्मनाय्य अवगलभ्येतिवत् न यप् । अयमेवात्र गुरूणामाशयः। न प्रादिरप्रत्ययः इति विवृतः। एकः प्रादिशन्दश्चाधन्तर्गणोऽधातुसंज्ञस्तस्थ