SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ क्यक्षो न वा ॥३३॥४३॥ क्यअन्तादात्मनेपदं वा स्यात् । पटपटायति । पटपटायते । डाच्यादावि (७।२।१४९) तितलोपः। लोहितायति । लोहितायते। तपसः क्यन् ॥३॥४॥३६॥ असात्कर्मणः कृतावर्थे क्यन्वा स्यात् । तपः करोति तपस्यति । नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये ॥३॥४॥३७॥ यथासंख्यमर्चादिष्वर्थेषु करोत्यर्थे क्यन् वा स्यात् । नमस्थति। वरिवस्यति। चित्रीयते । अर्चादिष्विति किम् ? नमः करोति । नमःशब्दमुचारयतीत्यर्थः । क्षुत्तृगर्धेऽशनायोदन्यधनायम् ॥४॥३३११३॥ एष्वर्थेषु यथासंख्यमशनायादयः क्यन्नन्ता निपात्यन्ते । अशनायति । उद्न्यति । धनायति। वृषाश्वान्मैथुनेस्सोऽन्तः ॥४॥३॥११४॥ आभ्यां मैथुनार्धाभ्यां क्यनि सोऽन्तः । वृषस्यति गौः । अश्वस्यति वडवा। - अस् च लौल्ये ॥४॥३॥११५॥ भोगेच्छातिरेको लौल्यम् । तस्मिन् गम्ये क्यनि परे नाम्नः सोऽस् चान्तः स्यात् । द्विसकारपाठात् दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति । _ नस्सः ॥२॥३॥५९॥ कृत द्विर्भावसकारसंबंधिनः सस्य षो न स्यात् । सुपिस्स्यते । सत्यार्थवेदस्याः ॥३॥४॥४४॥ एषां णिच् सन्नियोगे आः स्यात् । सत्यापयति । अर्थापयति । वेदापयति । प्रियस्थिरे (७४।३८) त्यादिना प्राद्यादेशे। प्रियमाचष्टे प्रापयति । णिज्बहुलं नाम्नः कृगादिषु ॥३॥४॥४२॥ स्थूलमाचष्टे स्थावयति । त्वामिच्छति स्वद्यति । मामिच्छति मद्यति । युष्मानिच्छति युष्मद्यति । अस्मद्यति । गीर्यते । पूर्यते। दिवमिच्छति दिव्यति। अमुमिच्छति अदस्यति। गार्गीयति।वाच्यति । कवीयति । समिध्यत्ति । क्षीरमिच्छति क्षीरस्यति बालः । लवणमिच्छति लवणस्यत्युष्टः । त्वमिवाचरति त्वद्यते। मद्यते। यूयमिवाचरति युष्मद्यते। अस्मद्यते। हरिणीवाचरति हरितायते । सपत्नीव सपनायते । सपतीयते । सपत्नीयते । युवतिरिवाचरति युवायते । पट्टीमृदयाविव पट्टीमृदूयते । सर्वनामभ्यः क्रियाचारे । अ इवाचरति । अति । अतः । अन्ति । चं. प्र. ४६
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy