SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३६० अथ नामधातुप्रक्रिया द्वितीयायाः काम्यः ||३|४|२२|| द्वितीयान्तादिच्छायां काम्यो वा भवति । इदं काम्यति । ऐदंकाम्यीत् । इदं कायाञ्चकार । इदं काम्यात् । इदं काम्यिता । इदं काम्यिष्यति । ऐदं काम्यियत् । अमाव्ययात्क्यश्च ||३|४|२३|| मन्ताव्ययवर्जाद्वितीयान्तादिच्छायामर्थे क्यन् काम्यो वा स्यात् । क्यनि ||४|३|११२॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रमिच्छति पुत्रीयति । अपुत्रीयीत् । पुत्रीयामास । पुत्रीयिता । पुत्रकाम्यति । राजानमिच्छति राजीयति । गव्यति । आधाराच्चौपमानादाचारे ||३|४|२४|| मन्ताव्यपवर्जादुपमानाद्वितीयान्तादाधाराच नाम्न आचारे क्यन्वा स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रासाद इवाचरति प्रासादीयति कुव्याम् । कर्तुः क्विव्गल्भक्लीबहोडात्तु ङित् ||३|४|२५|| कर्तुरुपमानादाचारेऽर्थे कि वा स्यात् । गल्भादिभ्यस्तु स एव ङित् । अश्व इवाचरति अश्वति । गल्भते । क्लीबते । होडते । क्यङ् ||३|४|२६॥ कर्तुरुपमानादाचारे क्यङा स्यात् । दीर्घश्च्वी ( ४ | ३|१०८ ) ति दीर्घे | हंस इवाचरति हंसायते । अहंसायिष्ट । हंसायाञ्चक्रे | हंसायिषीष्ट । सोवालुक् च ॥३|४|२७॥ क्यङि । पयायते । पयस्यते । ओजोप्सरसः ||३|४|२८॥ मिवं सोलुकू । ओजखीवाचरति ओजायते । अप्सरायते । ओजःशब्दो वृति विषये तद्वति । ऋतोरीः ॥ मात्रीयते । क्य मानिपित्तद्धिते ( ३/२/५०|) इति । श्येनीवाचरति श्येतायते । नंक्य ( | १|१|२२२ ) इति पदत्वे । राजायते । क् (१।२।२५।) इस्यवादेशे । गव्यते । पुं डाजलोहितादिभ्यः षित् ||३|४|३०|| एभ्यः कर्तृभ्यव्यर्थे षित्क्यङ् स्यात् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy