SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५७ बहुलं लुप् ॥३|४|१४॥ यङो लुप बहुलं स्यात् । कचित्प्रवृत्तिरित्यादि । यङ्लुबन्तं परस्मैपदमदादिवच्च । यङ तुरुस्तोरि (१४|३|६४ | ति वा ईदागमे । बोभवीति । बोभोति । बोभूतः । बोभवति । बोभूयात् । बोभोतु । बोभवीतु । बोभूहि | अबोभवीत् । अयोभोत् । अबोभवुः । पिवेतिदेति (४|३|६६) सिज्लुपि अवोभोत् । अवोभूताम् । अबोभूवुः । अभूवन् । इति केचित् । बोभूवाञ्चकार । बोभूयात् । बोभूयास्ताम् । बोभविता । बोभविष्यति । अघोभविष्यत् । जंगमीति । जंगन्ति । यमिरमिन मिगमि (१४/२/५५ ) इति मस्य लुकि । जंगतः । जंग्मति । मोनो स्वोश्व ॥ जंगन्मि । जंगन्वः । जंगन्मः । एकस्वरग्रहणोक्तत्वान्नेनिषेधः । अजंगमीत् । जंगमिता । चंखनीति । चंखन्ति । आः खनिसनिजनः || ४|२|६० ॥ घुडादौ किति । चंखाति चंखति । न वृद्धिश्चाविति किल्लोपे ॥४/२/११ ॥ अविति प्रत्यये यः कितो ङितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । मरीमृजन्ति । रिरौ च लुपि ॥ ४|११५६॥ I ऋमतां यङो लुपि द्वित्वे पूर्वस्य रिररीचैते त्रयोऽन्ताः स्युः । चरिकरीति । चर्करीति । चरीकरीति । चरिकर्ति । चर्कर्ति । चरीकर्ति । चरिकृतः । चर्वृतः । चरीकृतः । चरिक्रति । चक्रेति । चरीऋति | अचरिकारीत् ३ । चरिकरामास ३ | चरिक्रियात् ३ । चरिकरिता ३ । चरिकरिष्यति ३ । वरिवृतीति ३ । वरिवर्ति ३ । अवरिवृत्तीत् ३ | अवरिवर्त ३ | गणनिर्दिष्टत्वादङ् न स्यात् । अवर्वर्तीत् । एवं नरीनृतीति ३ । जरिगृधीति ३ । जरिगर्द्धि । जरिगृद्धि ३ । अजर्घत् ३ । अजरिगृद्धाम् । रुत्वे लुकि दीर्घे च । अजर्घाः । जरिगृहीति ३ । जरिगर्दि । जरिगृढः । जरिग्रहति । जरिगृहीषि । जरिघर्क्षि । जरिगृहीता । परिपृच्छीति । अनुनासिके चे ( |४|१|१०८ ) ति छस्य शत्वे । परिपर्ष्टि । परिपृष्टः । परिपृच्छति । परिपर्रिम । परिपृच्छ्रः । अत्र यनिमित्तो वृत् । लुप्यपि अय्यृल्लेतदि (७|४|११२२) ति निषेधात्स्थानिवत्वम् । पूर्वं न गुणाशुभरुच (| ३|४|१३ ) इत्युक्तं तद्भृशार्थ एव निषिद्धम् । पौनःपुन्ये च रोरुच्यते । शोशुभ्यते इति स्यादेव । सोसूत्रयते । अनेकस्वरत्वादषोपदेशे षत्वं न । स्सदि संचेस्त्रीयते । सिचो यङि || २|३|६०॥ सिचः सकारस्य न षत्वं यङि । निसेसिच्यते न ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy