________________
३५४
राधेर्वधे ॥४॥२२॥ सकारादौ सनि परे स्वरस्येकारः स्यान्न च द्विः । प्रतिरित्सति । अपरित्सति । अनक प्राणने । माणिणिषति । उच्छेः चछाभ्यां सहितस्येटो द्वित्वम् । चिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपाय इति त्वनित्यम् ।
श्वेर्वा ॥४।१।८९॥ ङपरे । अशुशवत् । अशिश्वयत् । शुशावयिषति । विशेषविज्ञानादन्तरअमपि वृद्धयादि वृता बाध्यते । तस्मिन् कृते वृद्धिरावादेशः । उपान्त्यहवः । ततो णौ कृतस्य स्थानिवत्वात् शोचिस्वम् । ततः पूर्वदीर्घ इति क्रमः । द्वित्वे हूः॥ जुहषति । णौ । जुहावयिषति ।।
उपसर्गात्सुरसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे ॥२॥३॥३९॥
ण्यन्तानामुपसर्गसम्बन्धे सति न भवति । अभिसावयति । अव्यपि । अभ्यषुणोत् । सुष्वापयिषति । सिषेधयिषति । इत्यत्र ।
णिस्तोरेवाऽस्वदस्विदसहः षणि ॥२॥३॥३७॥
खदखिदसहवर्ज ण्यन्तानां स्तौतेरेव च सम्बन्धिनः सस्य षत्वं स्यात्, नाम्यन्तस्थाकवर्गात्परत्वे सति षणि षत्वभूते सनि परे नान्येषाम् । सिषेवयिषति । णिस्तोरेव षणि नान्यस्य । तेनेह न । सुसूषति । एवकारः षण्येवणिस्तोरितिविपरीतनियमनिवृत्यर्थम् । तेन असीषिवत् तुष्टाव इह स्यात् । षणीति किम् ? सिषेव । षत्वं किम् ? तिष्ठासति । सुषुप्सति । षेधः ॥ इणोधातोः प्रतीषिषति । अधिषिषति । अत्र षणि निमित्तभूते धातोः सस्य षत्वनियम उक्तः। इति सनो द्विरुक्तत्वात् सस्य धातोः सम्बन्धिस्वाभावानियमो न प्राप्नोति । खदविदसहां वर्जनात् । सिवादयिषति । सिखेदयिषति । सिसाहयिषति । उपसगादि (२२३२३९१) त्यादिसूत्रेऽद्वित्व इत्युक्ते इह न षत्वम् । अभिसुषूषति । खाणेसन्नन्तात् सनि जुगुप्सिषते । इति सन्नन्ताः॥
अथ यङन्तप्रक्रिया व्यजनादेरेकखराद्धृशाभीक्ष्ण्ये यका ॥३॥४॥९॥
गौणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधाने साकल्येन सम्पत्तिः क्रियातिरेको वा भृशत्वम् । मुख्यक्रियायाः पाकादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् । तद्विशिष्टार्थवृत्तेर्व्यञ्जनादेरेकखराद्धातोर्यवा स्यात् । डकार आत्मनेपदार्थः । सन्यङचे (४|११३) ति द्वित्वे ।