SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५३ तनो वा ||४|१|१०५॥ तनेधुंडादौ सनि दीर्घो वा स्यात् । तितांसति । तितंसति । तितनिषति । रभलभशकपतपदामिः ||४|१|२१|| एषां खरस्य सि सनि इः स्यान्न च द्विः । पित्सति । पिपतिषति । प्रावुवू. र्षति । प्राविवरिषति । वुवूषति । विवरिषति । विवरीषति । तितीर्षति । तितरिषति । दिदरिद्रासति । दिदरिद्विषति । I ऋस्मिपूङअशौकुगृदृधृप्रच्छः || ४|४|१४८ ॥ एभ्यो दशभ्यः परस्य सन आदिरिद्र स्यात् । अरिरिषति । स्मि । सिस्मयिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । चिकरीषति । जिगरिषति । जिगरीषति । आदिदरिषते । आदिधरिषते । उद्दिधीर्षुरिति तु भौवादिकस्य । रुदविदे (४|३|३२| ) ति सनः कित्त्वे । पिच्छिषति । आतुमिच्छति ईप्सति । आरिप्सते । लिप्सते । स्थातुमिच्छति । तिष्ठासति । मिमीमादामित्स्वरस्य ॥४१॥२०॥ एषां त्रयाणां दासंज्ञकानां च सि सनि इत्स्यान्न च द्विः । मीग् । मीग (|४|२|८|) इत्यात्वे । मित्सति । मित्सते । दित्सति । दित्सते । धित्सति । धित्सते । अव्याप्यस्य मुचेर्मोग्वा ॥ ४|१|१९ ॥ न च द्विः । मोक्षति । कर्मणस्तु । मुमुक्षति चत्सम् । लुनन्तं प्रयुङ्क्ते लावयति । लावयितुमिच्छति । ओजन्तस्थापवर्गेऽवर्णे ( |४|१|६० ) इतीति । लिलाव. यिषति । पिपावयिषति । श्रस्तु ( |४|१|६१ ) इत्यादिना विकल्पेनेकारे शिश्रावयिषति । शुश्रावयिषति । गुसिजोर्गहक्षान्ती ॥ ॥ जुगुप्सति । तितिक्षते । कितः संशयप्रतिकारे ॥ चिकित्सति । शान्मान् बधान्निशानार्जवविचारवैरूप्ये दीर्घतः ॥ शीशांसति २ | दीदांसति । मीमांसति । बीभत्सते । दीच् परितापे । दातुमिच्छति । दिदासते । दिदीषते । दीङः सनि ||४||६॥ परे आत्वं वा स्यात् । तृहाँत् हिंसायाम् । तितृक्षति हैमम् । अतितितर्हिषति । जिं जये । जेर्गिः सन्परोक्षयोः ॥ ॥ जिगीषति । विबूच तन्तुसन्ताने । सिस्यूषति । सिसेविषति । देङ् पालने । दित्सते । शकुं । शिक्षति । शकींचू मर्षणे । शिक्षते २ । चं. प्र. ४५
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy