SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३५२ ज्ञाने तु । प्रतीषिषति । णौ सन् के वेति वा इङो गादेशे। अधिजिगापयिषति। अध्यापिपयिषति। वौ व्यञ्जनादेः सन्चाव्यः ॥४॥३॥२५॥ उकार इकारे चोपान्त्ये सति व्यञ्जनादे र्धातोः परः क्त्वा सन् च सेटौ किद्रद्वा स्याताम् । न तु यकारान्ताद्वकारान्ताच । दितिषते । दिद्योतिषते। लिलिखिषति । लिलेखिषति । उपान्त्ये । बिभित्सति । स्तोतुमिच्छति तुष्षति । वृद्भ्यः स्यसनो रित्यात्मनेपदविकल्पे, न वृद्भय इति परस्मैपदे इनिषेधे च । विवृत्सति । विवर्तिषते । कृतततृते तीडिकल्पे । निनृत्सति । निनर्तिषति । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपा दरिद्रः सनः ॥४॥४॥४७॥ इवन्ताधादिभ्यश्च दन्तेभ्यो दरिद्रातेश्च सन आदिरिडा स्यात् । अनुनासिके च छः शुट । दुषति । दिदेविषति । ऋध ई ॥४१॥१७॥ ऋधः सादौ सनि ईत् स्यात् न च द्विः । इसति । अदिधिषति । भृजो भयें ॥४॥४॥६॥ विभति । विभ्रजिषति। दम्भो धिप् धीप् ॥४॥१॥१८॥ दम्भेः सि सनि धिप धीपौ स्थातां न च द्विः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीपति । शिश्रयिषति । युः। युयूषति । ओजोन्तस्थापयर्गऽवणे इत्यनेन इकारः। यियविषति । प्रोर्णनूषति । प्रोर्णनविषति । प्रोर्णनुविषति । भृगः खरहनेति दीर्घ ओष्ठ्यादुर् । बुभूर्षति । विभरिषति । ज्ञप्यापो ज्ञीपीप् न च द्विः सिं सनि ॥४॥१॥१६॥ ज्ञपेरापेश्च सि सनि यथासंख्यं ज्ञीपीपी स्याताम् । जीप्सति । जिज्ञपयिषति । अघटादे जिज्ञापयिषति । सनि ॥४॥२॥६१॥ सनादीनां धुडादौ सनि आः स्यात् । सिषासति । सिसनिषति ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy