________________
३५० चहणः शाठ्ये ॥४॥२॥३१॥ चहेश्चौरादिकस्य शाठ्येऽर्थे वर्तमानस्य णिचि णौ परे हस्खो भवति, निणम्परे तु वा दीर्घः । चहयति । णित्करणाद्भौवादिकस्य न भवति । चाहयति । अदन्तत्वात्सिद्धे दीर्घार्थ वचनम् । चाहिष्यते । चहिष्यते । साहयतीत्यादि। न्यसीषहत् । अत्र असोङसिवूसहस्सटामिति सोविषयस्य तथा विषयस्य च वर्जनात् उपसर्गस्थनिमित्तादादेः सस्य षत्वं न । एवं पर्यसीषिवत् । आदिटत्, आशिशत् इत्यादौ । नित्यमपि द्विवचनं बाधित्वोपान्त्यहखो द्विस्वात्मागेव । ओणे प्रदित्करणाल्लिङ्गान्मा भवानिदिधदित्यादौ न वृद्धिः । मा भवान्प्रेदिधत् ।
न बदनं संयोगादिः ॥४॥१५॥ खरादे र्धातो द्वितीयस्यावयवस्यैकखरस्य चकारदकारनकाराः संयोगादयो न द्विः स्युः। औन्दिदत् । अत्र नकारो न द्विः। आविडत् । अत्र अदूधातोर्दकारो न द्विः। आर्चिचत् । अत्र रेफो न द्विः। औब्जिजत् । अन्न षकारो न द्विः ।
रभोऽपरोक्षाशवि ॥४।४।१०२॥ रमे वरात्परो नोऽन्तः स्यात् परोक्षाशवर्जे खरे परे । आररम्भत ।
लभः ॥४।४।१०३॥ अस्थापि प्राग्वत् । अललम्भत् । असमरत् । अददरत् । अत्र न लघोर्दीर्घः परत्वात् ऋदृवर्णस्येति । अवीवृतत् । अववर्तत् । अमीमृजत् । अममार्जत् । बित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥२२३२८१॥ प्राणिणत् ।
यिः सन्वर्ण्यः ॥४।११११॥ ईष्यते विभाजो यिः सन् था द्विः स्यात् । ईय॑यति । सनि । ईयियषति । ईयिषिषति । अत्र सन्यस्येतीत्वम् । णिजन्ताच रे प्रत्यये षकार एव द्विः भ्रूयते । ऐर्षिष्यत् । इति ण्यन्तप्रक्रिया ॥
अथ सन्नन्तप्रक्रिया । तुमर्हादिच्छायां सन्नतत्सनः ॥३॥४॥२१॥ · यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमहः, तस्मादिच्छायामर्थे सन् वा स्यात् । नविच्छासन्नन्तात् । पठितुमिच्छति इति वाक्ये प्रत्यये इडागमे च सति।