________________
३४९
ञ्णिति घात् ||४|३|१००॥
हन्ते जिति णिति च घात् स्यात् । घातयति ।
ऊद् दुषो णौ ||४|२|४० ॥
दुषेरुपान्त्यस्य णावृत्स्यात् । दूषयति । चित्ते वा ||४|२|४१॥
चित्तकर्तृकस्य दुषेद्वा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः । गोहः खरे इत्थूवे | गृहयति । अजूगुहत् ।
णौ मृगरमणे ||४/२/५१॥
र लुक् स्यात् । रजयति मृगान् ।
ज्वलह्वलह्मलग्नास्नावनूवमनमोऽनुपसर्गस्य वा ||४ |२| ३२॥
एषामष्टानामनुपसर्गाणां णौ हखो वा स्यात् । ज्वलयति । ज्वालयति । अनुपसर्गस्येति किम् ? प्रज्वलयति । प्रग्लापयति । प्रस्नापयति ।
कगेवनूज नैज़पक्कसञ्जः ॥४|२|२५ ॥
एषां षण्णां णौ ह्रस्वः स्यात् ञिणम्परे तु णौ वा दीर्घः । जनयतीत्यादि । पर्यपात्स्खदः ||४|२२७॥
पर्यपाभ्यामेव परस्य स्खदे णौ परे ह्वो भवति, ञिणम्परे तु वा दीर्घः । परिस्वद्यति । अपरखयति । अवादप्यन्ये । अवस्वदयति । घटादित्वात् सिद्धे नियमार्थं वचनम् । अन्योपसर्गपूर्वस्य माभूदिति । प्रस्खादयति । अन्ये तु पर्यपपूर्वस्य स्वदे खनिषेधमिच्छन्ति ।
रामोऽदर्शने ॥४/२/२८ ॥
अदर्शनेऽर्थे वर्तमानस्य शमे णौ परे हखो भवति ञिणम्परे तु णौ वा दीर्घः । शमयति रोगम् । निशमयति श्लोकान् । दर्शने तु निशामयति रूपम् । केचिदर्शन एव हखमिच्छन्ति ।
यमोsपरिवेषणे णिचि च ॥ ४२|२९||
अपरिवेषणे वर्तमानस्य यमे र्णिच्यणिचि च णौ परे हखो भवति, त्रिणपरे तु णौ वा दीर्घः । यमयति । परिवेषणे तु यामयत्य तिथीन् । यामयति चन्द्रमसम् । परिवेषणे ह्रस्व इत्यन्ये ।