________________
३४८
स्याद्वा । घृतं विलीनयति । विलाययति वा। लिय इतीकारस्य प्रश्लेषादीकारा. न्तस्यैवायं विधिः । कृतात्वस्य तु वक्ष्यमाणौ लकारपकारी स्तः ।
लोलः ॥४॥२॥१६॥ लातेलीय इति कृतात्वस्य च लेहद्रवेऽर्थे णौ परे लोऽन्तो वा स्यात् । घृतं विलालयति । विलापयति वा । लेहद्रव इति किम् ? लोहं विलाययति । नोऽन्ते ऽद्यतन्यां व्यलीलिमत् इत्यत्रोपान्त्यहखः।
पातेः॥४॥२॥१७॥ णौ लोऽन्तः स्यात् । पालयति ।
वो विधूनने जः ॥४॥२॥१९॥ वा इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पाक्षिकेणोपवाजयति । अवीवजत् ।
पाशाच्छासावेव्याह्वो यः॥४॥२॥२०॥ एषां सप्तानां णौ योऽन्तः स्यात् । पां पाने । पैं शोषणे वा । पाययति ।
● पिवः पीप्य् ॥४॥१॥३३॥ ण्यन्तस्य पिवते . परे पीप्य् स्यात् न च द्विः। अपीप्यत् । शोंच, शाययति । छोंच, छाययति । सों मैं वा, साययति । वेंग वाययति । अनास्वनिर्देशाद्वा गतिगन्धनयोः, ओवै शोषणे अनयोन । व्यग, व्याययति । द्वेग हाययति । अवीवयत् । अशीशयत् इत्यादि । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्थापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् ।।
णौ उसनि ॥४॥१॥८८॥ हँगः सखरान्तस्था उपरे सन्परे च णौ विषये वृत्स्यात् । भ्राजभासेत्यादिना वोपान्त्यहखे अजूहवत् । अजुहावत् ।
श्वे वा ॥४।१।८९॥ वृत्प्राग्वत् सन्परे उपरे च णौ विषये । अशुशवत् । अशिश्वयत् ।
स्फाय स्फाव् ॥४॥२॥२२॥ णौ । स्फावयति । अभेदनिर्देशोऽन्ताधिकारनिवृत्त्यर्थः ।
शदेरगतौ शात् ॥४॥२॥२३॥ शीयतेरगत्यर्थे शात्स्यात् णौ । पुष्पाणि शातयति । गतौ तु गां शादयति ।