SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३४७ इति द्विखे । आर्पिपत् । रीति रीयतिरिणात्यो ग्रहणम् । रेपयति । ब्लेपयति । हेपयति । कोपयति । क्षमायैङ् विधूनने । मापयति । अत्र । __ खोः प्वव्यञ्जने लुक्॥४।४।१२१॥ पौ यवर्जव्यञ्जनादौ च प्रत्यये परे यवोर्लक् स्यात् । पुग्रहणमप्रत्ययार्थम् । णौ क्रीजीङः ॥४॥२॥१०॥ एषां त्रयाणां णौ परे आत्स्यात् । क्रापयति । जापयति । अध्यापयति । णो सनङ वा ॥४॥४॥२७॥ सन्परे ङपरे च णौ इङो गा वा स्यात् । अध्यजीगपत् । अध्यापिपत्। चिस्फुरो नवा ॥४॥२॥१२॥ चिनोतेः स्फुरतेश्च णौ परे स्वरस्थाद्वा स्यात् । चापयति । चाययति । स्फारयति । स्फोरयति । वियः प्रजने ॥४॥२॥१३॥ गर्भाधाने णावात्स्यात्। पुरोवातो गाः प्रवापयति । गर्भवतीः करोतीत्यर्थः । जिघ्रतेरिः ॥४॥२॥३८॥ अस्य ङपरे णौ वा इ. स्यात् । अजिघ्रिपत् । अजिघ्रपत् । तिष्ठतेः ॥४॥२॥३९॥ तिष्ठतेरुपान्त्यस्य ङपरे णाविकारो भवति । अतिष्ठिपत् । सिध्यतेरज्ञाने ॥४॥२॥११॥ अज्ञानार्थस्य सिध्यते ९ स्वरस्यात्स्यात् । अन्नं साधयति । ज्ञाने तु सिध्यन्तं तत्त्वं निश्चिन्वन्तं प्रयुङ्क्ते सेधयति तपः साधुः । णावज्ञाने गमुः ॥४॥४॥२४॥ अज्ञानार्थयो रिणिको गंमुः स्यात् णौ । गमयति । अधिगमयति । ज्ञाने तु प्रत्याययति। रुहः पः॥४॥२॥१४॥ रुहे ो पो वा स्यात् । रोपयति । रोहयति वा तरुम् । लियो नोऽन्तः स्नेहद्रवे ॥४॥२॥१५॥ ली इति लीगलीनोः सामान्येन ग्रहणम् । लियः लेहस्य द्रवेऽर्थे णौ नोऽन्तः
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy