________________
पुच्छादुत्परिव्यसने ॥३॥४॥३९॥ पुच्छशब्दात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णि प्रत्ययो वा भवति। उत्पुच्छयते । परिपुच्छ यते। विपुच्छयते।पुच्छयते। इति चुरादयो धातवः।
अथ णिगन्तप्रकरणम् । प्रयोक्तव्यापारे णिम् ॥३॥४॥२०॥ कुर्वन्तं प्रयुते तद्व्यापारे वाच्ये धातोर्णिग्वा स्यात् । गकारस्तूभयपदार्थः । भवन्तं प्रयुते । नामिनोऽकलिहलेरिति वृद्धौ भावयति । भवन्तं प्रायुत इति वाक्ये भाविद् इति स्थिते जाते णिश्रिटुसुकमः कर्तरि ऊ इति । । उपान्त्यस्यासमानलोपीति इखे ततो गेलुंकि असमानलोप इत्यादिना सन्वद्भावे ॥
ओर्जान्तस्थापवर्गेऽवणे ॥४॥श६०॥ धातोदित्वे सति पूर्वस्योकारान्तस्य अवर्णान्ते जान्तस्थाऽपवर्गे परतः सनि परे इकारोऽन्तादेशः स्यात् । लघोर्दीर्घोऽस्वरादेरिति दीर्धे । अबीभवत् ।
श्रुस्तुद्रुघुप्लुच्यो वा ॥४॥११॥ एषां सनि द्वित्वे सति पूर्वस्योकारस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा स्यात् । अशिश्रवत् । अशुश्रवत् । सन्यस्य ॥ शुश्रावयिष्यति । शिश्रावयिष्यति ।
आमन्ताल्वाय्येनावय ॥४॥३८५॥ आम् अन्त आलुप् आय्य इत्नु एषु परेषु णेरय् स्यात् । भावयामास । भाव्यात् । भावयिता । भावयते । अबीभवत् । पाचयते । अपीपचत् । कारयति । अचीकरत् । कारयते । अचीकरत । रावयति । अरीरवत् । लावयति । अलीलवत् । पावयति । अपीपवत् । शासयति । अशशासत् । ढोकृ गतौ । होकयति । अडढौकत् । अचचकासत् । मतान्तरे। अचीचकासत। ऋदिद्वजेनात हखनिषेधः । राजयति । अरराजत् । स्मरन्तं प्रयुक्ते । घटादित्वाइस्वत्वे । स्मरयति । स्मृदृस्वरेति । असस्मरत् । भ्राजभासेति वा इखत्वे पूर्वस्य सन्वगावेनेत्वम् । अविभ्रजत् । अबभ्राजत् । अबिभ्रसत् । अबभ्रासत् । अदीदिपत् । अदिदीपत् । अवीवृतत् । वर्णस्येति ऋत्वे । पक्षे गुणः । अववतंत् । खापयति । खपेर्यले चेति ॥ वृत् । ततो द्वित्वे । असूषुपत् ।
अतिरीक्लीहीक्यूयिक्ष्माय्यातां पुः ॥४॥२॥२१॥
एषामाकारान्तानां च णौ परे पुरन्तः स्यात् । अाति प्रापणार्थस्य गत्यर्थस्य च ग्रहणम् । तिवनिर्देशो यलुपि निवृत्यर्थः । अर्पयति । खरादेर्द्वितीय