________________
३४५
याम् || ३५ || हिंसयति । हिंसति । हिंस्यात् । गर्हणू विनिन्दने || ३६ || पहणू मर्षणे ॥ ३७ ॥ साहयति । सहति । असीषहत् । असहीत् । बहुलमेतन्निदर्श नम् । यदेतद्भवत्यादिधातुपरिगणनं तद्वाहुल्येन निदर्शनस्वेन ज्ञेयम् । तेनात्रापfoता अपि क्लीवप्रभृतयो लौकिकाः स्तम्भूप्रभृतयः सौत्राश्रुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्थ्याः । यद्वा भ्वादिगणाष्टकोक्ता अपि स्वार्थणिजन्ताबहुलं भवन्ति । रामो राज्यमकारयत् । अकरोदित्यर्थः । इति चुरादयः ॥ अथ णिङन्तप्रकरणम् । भूङः प्राप्तौ णिङ् ||३|४|१९॥
भुवो धातोः प्रात्यर्थे वर्तमानात् णिङ् वा स्यात् । भावयते । भवते । प्रामोतीत्यर्थः । अन्यत्र भवतीत्येव । भूङ् इति ङकारनिर्देशो णिङभावेऽप्यात्मनेप दार्थः । प्रायर्थाभावेऽपि कचिदात्मनेपदमिष्यते । यथा; याचितारश्च नः सन्तु दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे ॥ १ ॥ प्रात्यर्थेऽपि परस्मैपदमित्यन्ये । सर्वं भवति । प्राप्नोतीत्यर्थः ।
णिज्बहुलं नाम्नः कृगादिषु || ३ | ४|४२ ॥
कृगादीनां धातूनामर्थं नाम्नो विच्प्रत्ययः स्यात् बहुलम् । बहुलग्रहणाद्यनानो यद्विभक्त्यन्ताद्यस्मिन् धात्वर्थे दृश्यते, तस्मान्नान्नस्तद्विभक्त्यन्ताद्धात्वर्थे भवतीति नियमो लभ्यते । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां त्र्यन्त्यख रादेरित्यन्त्यखरादिलोपः । अपीपदत् । भाष्ये तु वृद्धेर्लोपो बलीयानिति अपप टत् । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः । अश्वेनाक्रामति । अश्वयति । हस्तयति । असिना हन्ति असयति । चित्रं करोति चित्रयति ।
अङ्गान्निरसने णिङ् ||३|४|३८॥
अङ्गवाचिनः शब्दात्कर्मणो निरसनेऽर्थे णिङ् प्रत्ययो वा स्यात् । हस्ती निरस्यति हस्तयते ।
श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरे
तकलुक् ||३|४|४५॥
एषां चतुर्णां णौ परे अश्वतरेत काना मेषामवयवानां लुक् स्यात् । श्वेताश्वे नातिक्रामति वा श्वेतयति । अश्वतरेणातिक्राम्यति अश्वयति । गालोडित वाग्विमर्शस्तत्करोति आचष्टे वा गालोडयति । आह्नरकं कुटिलतरमाचष्टे आह्वरयति ।
चं. प्र. ४४