________________
३४४
धूग्णीगोनः ॥४२॥१८॥ . . अनयो णौँ नोऽन्तः स्यात् । प्रीणयति । गित्वस्य णिजभावे फलवकर्तास्मनेपदार्थत्वात् । प्रयते । प्रयति । श्यादेरेनमिच्छन्त्येके । तन्मते प्राययति । भूगण कम्पने ॥५॥ धूनयति । अनुबन्धनिर्देशो यलुनिवृत्यर्थः । दाधावयति । पेप्राययति । धुधति प्रियति निवृत्यर्थश्च । तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पश्चैतानि न यड्लपि ॥१॥नं नेच्छन्त्येके । धावयति । पक्षे । धवते । धयति । अधावीत् । अधविष्ट । अधोष्ट । वृगण आवरणे ॥६॥ धारयति । वरति । वरते । जृण वयोहानौ ॥७॥ जारयति । जरति । अजारीत् । धीक शीकण आमर्षणे ॥ ८॥ अशीशिकत् । मार्ग अन्वेषणे ॥९॥ मार्गयति । मार्गति । अमार्गीत् । पृचण सम्पर्चने ॥ १०॥ समपीपृचत् । समपपर्चत् । अपचीत् । रिचण् वियोजने च ॥११॥ वचण भाषणे ॥१२॥ सन्देशन इत्येके । वाचयति । वचति । वच्यात् । यजादिवचे रित्यत्र यौजादिकस्याग्रहणान वृत् । अर्चिण् पूजायाम् ॥१३॥ अचयति । अचते । वृजैण वजने ॥१४॥ मृजौण शौचालङ्कारयोः ॥१५॥ मृजोऽस्येति वृद्धिः । मार्जयति । मार्जति । औदित्वाद्वेट् । कठुण शोके ॥१६॥ कण्ठयति । उत्कण्ठति । श्रन्ध ग्रन्थण सन्दर्भे ॥ १७॥ ऋथ अर्दिण् हिंसायाम् ॥ १८ ॥ चौरस्योत्क्राथयति । ऋथति । णिगि घटादित्वाद्रवत्वे चौरमुत्कथयति । अर्दयति। अर्दते । वदिण् भाषणे ॥ १९॥ सन्देशन इत्यन्ये । वादयति । संवदते । ववदे। वदिषीष्ट । छदण् अपवारणे ॥ २०॥ छादयति । छदति । ऊर्जने घटादित्वाइखे छदयति । आङः सदण् गतौ ॥२१॥ आसादयति । आसीदति । आसदतीत्येके । आसादीत् । आसदीत् । अनुस्वारेत्वान्नेडित्यन्ये । आसात्सीत् । छुदण् सन्दीपने ॥२२॥ छर्दयति । छर्दति । कृतवृते त्यत्र तृद साहचर्यादुधादेरेव ग्रहणेन इडिकल्पाभावः । छर्दिष्यति । ऐदिदयमित्येके । शुन्धिः शुद्धौ ॥ २३ ॥ शुन्धयति । शुन्धते । अनिदिदयमित्येके । तनूण श्रद्धाघाते ॥२४॥ श्रद्धोपकरणयोरित्यन्ये । तानयति । तनति । उपसगाईये । आतानयतीत्यादि । मानण् पूजायाम् ॥ २५॥ मानयति । मानति । मनणित्येके । तपिण् दाहे ॥ २६ ॥ तापयति । तपते । तृपण प्रीणने ॥ २७ ॥ सन्दीपन इत्येके । आप्लण लम्भने ॥ २८ ॥ लम्भनं प्राप्तिः । आपयति । आपिपत् । आपति । आपत् । हभैण् भये ॥ २९ ॥ दर्भयति । दर्भति । ईरण क्षये ॥ ३० ॥ गतावित्येके । ईरयति । ईरति । मृषिण तितिक्षायाम् ॥३॥ मर्षयति । मर्षते । शिषण् असर्वोपयोगे ॥ ३२॥ असर्वोपयोगोऽनुपयुक्तत्वम् । शेषयति । शेषति । विपूवोऽतिशये । विशेषयति । विशेषति । व्यशेषीत् । जुषण परितर्कणे ॥ ३३ ॥ परितर्पण इत्येके । जोषयति । जोषति । धृषण प्रसहने ॥३४॥ प्रसहनमभिभवः । धर्षयति । अदीधृषत् । अदधर्षत् । अधर्षीत् । आदिद्यमित्येके । हिसुण हिंसा.