________________
३४३
कजत् । अजगात्रत् । चित्रण चित्रक्रियाकदाचिदृष्ट्योः ॥४९॥ चित्रयति । आलेख्यं करोति । कदाचित्पश्यति वेत्यर्थः । वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यन्ये । छिद्रण भेदे ॥ ५० ॥ मिश्रण सम्पर्चने ।। ५१ ॥ वरण ईप्सायाम् ॥५२॥ घरयति । अववरत् । स्वरण आक्षेपे ॥ ५३॥ खरयति । असखरत् । शारण दौर्बल्ये ॥५४॥ तालव्यादिः। शरेति नन्दी। शारयति । अशशरत् । कुमारण कीडायाम् ॥ ५५ ॥ कुमारयति । अचुकुमारत् । लान्तोऽयमित्येके । कुमालयति । कलण संख्यानगत्योः ॥५६॥ कलयति । क्षेपे तु कालयति गाः। शीलण उपधारणे ॥ ७ ॥ उपधारणमभ्यासः परिचयो वा । शीलयति । अशिशीलत् । वेल कालण् उपदेशे ॥५०॥ अविवेलत् । अचकालत् । वेलण् कालोपदेश इत्येके । पल्यूलण लवनपवनयोः ॥ ५९॥ पल्यूलयति क्षेत्रं धान्यं वा । अपपल्यूलत्। वल्यूलेत्यन्ये । अंशण समाघाते ॥ ६०॥ समाघातो विभजनम् । अंशयति रिक्थम् । चन्द्रो दन्त्यान्त्यमाह । व्यंसयति । पषण अनुपसर्गः ॥६१॥ पषयति । अनुपसर्ग इति किम् ? प्रपषति । गवेषण मार्गणे ॥ ६२॥ गवेषयति । अजगवे. षत् । मृषण क्षान्तौ ॥ ६३ ॥ मृषयति । अममृषत् । रसण आस्वादनलेहनयोः ॥ ६४ ॥ वासण् उपसेवायाम् ॥ ६५॥ निवासण आच्छादने ॥ ६६ ॥ निवासयति । अनिनिवासत् । बहण कल्कने ॥ ६७ ॥ अचचहत् । महणू पूजायाम् ॥६८॥ अममहत् । रहण त्यागे ॥ १९॥ रहयति । अररहत् । रहुण् गतौ ॥७॥ रंहयति । स्टहण ईप्सायाम् ॥७१॥ पुष्पेभ्यः स्टहयति । रूक्षण पारुष्ये ॥ ७२ ॥ रूक्षयति । अरुरुक्षत् । इत्यदन्ताः परस्मैपदिनः ॥ __ मृगणि अन्वेषणे ॥१॥ मृगयते । अर्थणि उपयाचने ॥२॥ पूर्वाचार्यानु. रोधादन्तेष्वस्य पाठः। एवं सत्रिगोरपि । केचिददन्तत्वबलात् अतोलुक बाधित्वा वृद्धौ प्वागमे च अर्थापयते इत्यादि मन्यन्ते । आतथत । पदणि गती ॥३॥ पदयते । अपपत्त । संग्रामणि युद्धे ।। ४॥ संग्रामयते शूरः। असंग्रामयत । अयं परस्मैपदीत्येके । सङ्ग्रामयति । शूर वीरणि विक्रान्तौ ॥५॥ सत्रणि सन्दानक्रियायाम् ॥ ६॥ सन्तानक्रियायामित्येके। सत्रयते शत्रून् । अससत्रत। स्थूलणि परिवृहणे ॥७॥ स्थूलयते । गर्वणि माने ॥८॥ गर्ययते । अजगर्वत । गृहणि ग्रहणे ॥९॥ गृह्यते । अजगृहत । कुहणि विमापने ॥ १०॥ कुयते । इत्यदन्ताः ॥ अथ विकल्पित णियः॥ युजण् सम्पर्चने ॥१॥
युजादेर्न वा ॥२४॥१८॥ एभ्यो णिज्वा स्यात् । योजयति । योजति । अयूयुजत् । अयोजीत् । ली द्रवीकरणे ॥२॥ विलाययति । लयति । मीण मतौ ॥ ३॥ गतावित्यन्ये । माय. यति । मयति । अमीमयत् । अमायीत् । प्रीगण तर्पणे ॥४॥