SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३४० त्यर्थः । शब्दण् उपसर्गात् भाषाविष्कारयोः ॥ १८॥ विशब्दयति । योगविभा. गोऽत्रेति नन्दी । शब्दण् उपसर्गादित्येकः । भाषाविष्कारयोरित्यपरः। प्रशब्दयति । द्वितीयोऽनुपसर्गार्थः । शब्दयति । दण् आश्रवणे ॥ १९ ॥क्षरण इत्येके । सूदयति । आङ: क्रन्दण् सातत्ये ॥ २० ॥ आक्रन्दयति । अर्थान्तरे तु आक्र. न्दति । वदण् आखादने ॥ २१ ॥ संवरण इत्यन्ये । खादयति । आखदः सकर्म. कात् । आस्वादयति यवागूम् । मुदण् संसर्गे ॥ २२॥ मोदयति सक्तून् सर्पिषा । संसृजतीत्यर्थः । शृधण् प्रसहने ॥ २३ ॥ प्रसहनमभिसंभवः । शर्धयत्यरिम् । अशीशृधत् । अशशर्धत् । कृपण अवकल्कने ॥ २४ ॥ तच्च मिश्रीकरणं सामर्थ्य च । कल्पयति । जभुण नाशने ॥ २५ ॥ जम्भयति । अमण रोगे ॥२६॥ अमोऽकम्यमिचमः॥४॥२॥२६॥ कम्यमिचमवर्जममन्तस्य धातो णोपरे इखः स्यात्, त्रिणम्परे तु णौ वा दीर्घः। आमयति । चरण असंशये ॥२७॥ विचारयति। निश्चिनोतीत्यर्थः। भक्षणे तु चरति । पूरण आप्यायने ॥ २८ ॥ दलण् विदारणे ॥ २९ ॥ दालयति । णिगि दलयतीत्येके । दिवः अर्दने ॥ ३० ॥ देवयति शत्रून् । पश पषण् बन्धने ॥ ३१ ॥ पाशयति पाशैरश्वम् । पाशयति । दन्त्यान्तोऽयमित्येके । पुषण धारणे ॥ ३२ ॥ पोषयत्याभरणम् । घुषण विशब्दने ॥ ३३ ॥ विशिष्टशब्दकरणे । नानाशब्ददानेवेत्यर्थः । घोषयति । अविशब्दन इत्येके । अपघोषयति पापम् । अपहृते इत्यर्थः । ऋदित्करणं चुरादिणिचोऽनित्यत्वे लिङ्गम् । अघुषत् । अघोषीत् । जुघुषुः पुष्पमाणवा-इत्यादिसिद्धम् । नायमृदिदितिकौशिकः । आङ: क्रन्दे ।। सातत्ये इत्यन्ये । आघोषयति । भूष तसुण अलङ्कारे ॥ ३४ ॥ उत्तंसयति । जसण तोडने ॥ ३५ ॥ जासयति । त्रसणू वारणे ॥ ३६ ॥ धारणमिति नन्दी । ग्रहण इत्येके । प्रासयति मृगान् । निराकरोतीत्यर्थः । वसण लेहच्छेदावहरणेषु ॥३७॥ अवहरणं मारणम् । वासयत्यरीन् । भ्रसण उत्क्षेपे ॥ ३८॥ उञ्छ इत्येके । ध्रासयति । उकारादिरयमित्येके । असण् ग्रहणे ॥ ३९ ॥ ग्रासयति फलम् । लसण् शिल्पयोगे ॥ ४०॥ लासयति दारु । षान्तोऽयमित्येके । तालव्यान्त इति तु कौशिकः । अहणू पूजायाम् ॥४१॥ अहयति । आर्जिहत् । मोक्षण असने ॥४२॥ मोक्षयति शरान् । अस्यतीत्यर्थः । अथ वर्णभासार्थाः ससत्रिंशत् । लोकृ तर्क रघु लघु लोचू विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घटु वृत पुथ नद वृध गुप धूप कुप चीव दशु कुशु त्रसु पिसु कुसु दसु वह वृहु वह्न अहु वहु महु भाषार्थाः॥४३॥ भासार्थाश्चेति पारायणम् । भास. पति दिशः । दीपयति । इन्धयति । प्रकाशयतीत्यादि । __अधात्मनेपदिनः ॥ युणि जुगुप्सायाम् ॥१॥ यावयते धर्म जाल्मः । अन्यत्र । यौति । युनाति । युनीते । युजिरयमित्येके । योजयते । गृणि विज्ञाने ॥२॥ गारयते । विज्ञापन इत्येके । कृणि इति चन्द्रः। कारयते । वश्विण प्रल
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy