________________
३३९
साम सान्त्वप्रयोगे इति चन्द्रः । सामयति । असीसमत् । धूशण कान्तिकरणे ॥ १०७ ॥ धूशयति । मूर्धन्यान्तोऽयमित्यन्ये । श्लिषण श्लेषणे ॥ १०८ ॥ लूषण हिंसायाम् ॥ १०९ ॥ रुषण रोषे ॥ ११० ॥ व्युषण उत्सर्गे ॥ १११ ॥ व्योषयति । पसुण नाशने । ११२ ।। पंसयति । जसुण रक्षणे ॥ ११३ ॥ पुंसुण अभिमर्दने ॥ ११४ ॥ बुस पिस जस बर्हण हिंसायाम् ॥ ११५ ॥ ष्णिहण स्नेहने ॥ ११६ ॥ लेहयति । म्रक्षण म्लेच्छने ॥ ११७ ॥ भक्षण अदने ॥ ११८ ॥ पक्षण परिग्रहे ॥ ११९ ॥ इति परस्मैपदिनः ॥
लक्षण दर्शनाङ्कयोः ॥ १ ॥ ईदित्वात्फलवति कर्तर्यात्मनेपदम् । अन्यत्र शेषादिति परस्मैपदम् । लक्षयते । लक्षयति । इत्यादि । इतोऽर्थविशेषे लक्षिणपर्यन्ताश्चुरादयः । ज्ञाणू मारणादिनियोजनेषु ॥ १ ॥
मारणतोषणनिशाने ज्ञश्व ||४|२|३०||
एष्वर्थेषु जानाते र्णिच्यणिचि च णौ हखः स्यात् । त्रिणम्परे तु णौ वा दीर्घः । संज्ञपयति पशुम् । अर्ती त्यादिना वक्ष्यमाणेन पुः । विज्ञपयति गुरुम् । प्रज्ञपयति शस्त्रम् । आज्ञापयति भृत्यम् । च्युण सहने ॥ २ ॥ च्यावयति शरान् । सहत इत्यर्थः । भूण अवकल्कने || ३ || अवकल्कनं मिश्रीकरणम् । भावयति दनौदनम् । विकल्कन इति नन्दी । भावये ब्राह्मणं तपः । अवकल्पन इत्यन्ये । बुक्कण भाषणे || ४ || भषण इत्यन्ये । बुक्कयति श्वा चौरान् । रक लक रंग लगणू आच्छादने ॥ ५ ॥ आधावसादन इत्यन्ये । रागयति । लागयति । णिगि घटादित्वाद्धखे रगयति । लगयति । लिगुण चित्रीकरणे ॥ ६ ॥ लिङ्ग्यति शब्दम् । स्त्रीपुंनपुंसकलिङ्गैश्वित्रीकरोतीत्यर्थः । चर्चण् अध्ययने ॥ ७ ॥ चर्चयति शास्त्रम् । अञ्चण् विशेषणे ॥ ८ ॥ अञ्चयत्यर्थम् । व्यक्तीकरोतीत्यर्थः । मुचण् प्रमोचने ॥ ९ ॥ मोचयति शरान् । प्रयोजन इत्यन्ये । मोचयति कुण्डले । प्रयोजयतीत्यर्थः । अर्ज प्रतियते ॥ १० ॥ प्रतियत्नः संस्कारः । अर्जयति हिरण्यम् । निवेशयतीत्यर्थः । भजणू विश्राणने ॥ ११ ॥ विश्राणनं विपचनम् । चट स्फुटण् भेदे ॥ १२ ॥ घटण संघाते ॥ १३ ॥ घाटयति । अन्यत्र णिगि ।
घटादेखो दीर्घस्तु वा ञिणम्परे ||४ |२| २४ ॥
घटिषु चेष्टायामित्यादीनां णौ परे ह्रस्वः स्यात्, त्रिणम्परे तु णौ वा दीर्घः । घटतीत्यादि । हन्त्यर्धाच ॥ येऽन्यत्र हिंसार्थाः पठ्यन्ते तेऽप्यन्त्र चुरादौ वेदितव्याः । घातयति । हिंसयतीत्यादि । अनेनैव सिद्धे चुरादिषु हिंसार्थानां पाठ आत्मनेपदादिगतरूपभेदार्थः । कणण निमीलने ॥ १४ ॥ काणयति । अचीकणत् । अचकाणत् । कण शब्दे ॥ १५ ॥ कणयति । यतण निकारोपस्कारयोः ॥ १६ ॥ निकारः खेदनम् । यातयत्यरिम् । उपस्कारे । यातयति छिद्रं राजा । प्रच्छादयतीत्यर्थः । निरश्च प्रतिपादने ॥ १७ ॥ निर्यातयति ऋणम् । शोभयती