________________
३३८
वर्त पथुण गतौ ॥ ३१॥ स्वर्तयति । पन्थयति । आधः कृच्छ्रजीवनेऽपीत्यन्ये । अधण प्रतिहर्षे ॥३२॥ प्रतियत्न इत्यन्ये । श्राधयति । अथण बन्धने वेति युजादौ पठिष्यमाणोऽप्यर्थभेदादिह पुनरधीतः । आत्मनेपदेन रूपान्यत्वार्थमिह पाठ इत्येके । श्राथयते । पृथण प्रक्षेपणे ॥ ६३ ॥ पर्थयति । अपीपृथत् । अपपर्थत् । पर्थण इत्येके । पार्थः इत्यन्ये । प्रथण प्रख्याने ॥ ६४ ॥ प्राथयति । ।
स्मृहत्वरप्रथम्रदस्तृस्पशेरः ॥४॥१॥६५॥ एषां धातूनामसमानलोपे उपरे णौ द्वित्वे पूर्वस्थाकारस्थाकारोन्तादेशः स्यात् । इत्वापवादः । अपप्रथत् । छदण संवरणे ॥६५॥ छायति । ऊर्जने घटादि. स्वाद इखे छदयति । युजादित्वात्सिद्धरिह पाठ आत्मनेपदेन रूपान्यस्वार्थः । छादयते । चुदण् संचोदने ॥ ६६ ॥ संचोदनं नोदनम् । चोदयति । मिदुण लेहने ॥ ६७ ॥ मिन्दयति । नायमुदिदिति कौशिकः । मेदयति । अमीमिदत् । गुर्दण् निकेतने ॥६८॥ पूर्वनिकेतन इत्येके । भ्वादेरिति दीर्घ । गूर्दयति । छर्दण् वमने ॥ ६९ ॥ छर्दयति, । इह गर्दण् शब्द इत्येके पेडः । गर्दयति । बुधुण् हिंसायाम् ॥७॥ बुन्धयति । ठान्तोऽयमित्यन्ये । बुण्ठयति । वर्धण् छेदन. पूरणयोः ॥७१ ॥ गण अभिकाङ्खायाम् ॥७२॥ बन्ध बधण संयमने ॥ ७३ ॥ बन्धयति । बाधयति । छपुण् गतौ ॥ ७४ ॥ क्षपुण क्षान्तौ ॥ ७॥ ष्टूपण् समुच्छ्राये॥७६ ॥ स्तूपयति । अषोपदेश इत्यन्ये । उकारो हख इत्येके । स्तोपयति । डिपण् क्षेपे ॥७७ ॥ रुपण व्यक्तायां वाचि ।। ७८ ॥ हापयति । इपु डिपुणे संघाते ॥७९॥ अभिमर्दन इत्येके । डम्पयति । डिम्पयति । भान्तावेतावित्यन्ये । शूर्पण माने ॥ ८॥ तालव्यादिः । शुल्ब सर्जने च ॥ ८१ ॥ चात् माने । डबु डिबुण् क्षेपे ॥८॥ विडम्बयति । केचित्तु दभदभूनपि भान्तानिहाधीयते । दाभयति । दम्भयति । दिम्भयति । सम्बण सम्बन्धे ॥८३ ॥ षोपदेशोऽयमित्यन्ये । तालव्यादिरयमिति द्रमिलाः । शम्बयति । साम्बत्येके । साम्बयति । कुवुण आच्छादने ॥ ८४ ॥ लुबु तुबुण अर्दने ॥ ८५॥ तुपुण् इत्यप्यन्ये । तुम्पयति । पुर्बण निकेतने ॥ ८६ ॥ पूर्वयति । यमण परिवेषणे ॥ ८७॥ यामयति । अन्यत्र । यमयति । व्ययण क्षये ॥८८॥ व्याययति । यत्रुण संकोचने ।। ८९ ॥ कुटुण अनृतभाषणे ॥ ९॥ कुन्द्रयति । गादिरयमित्यन्ये । गुन्द्रयति । श्वभ्रण गतौ ॥ ९१ ॥ तिलण् लेहने ॥ ९२॥ जलए अपवारणे ॥९३ ।। जालयति । क्षलण् शौचे ॥९४ ॥ पुलण समुच्छ्राये ॥९५॥ बिलण् भेदे ॥१६॥ भिलेति कौशिकः । तलण् प्रतिष्ठायाम् ॥९७ ॥ तुलण उन्माने ॥९८॥ तोलयति । तुलयतीति तुलाशब्दात् णिज्बहुलमिति णिचि रूपम् । दुलण् उत्क्षेपे ॥ ९९ ॥ वुलण् निमज्जने ॥ १०॥ मूलणू रोहणे ॥१०१ ॥ कल किल पिलः क्षेपे॥१०२॥ पलणू रक्षणे ॥ १०३ ॥ पालयति । इलण् पूरणे ॥ १०४॥ चलणू भृतौ ॥१.५॥ सान्त्वणू सामप्रयोगे ॥१०६॥ षोपदेशोऽयमित्येके ।