________________
स्मिटण अनादरे ॥ २५ ॥ अह अल्पीभाव इत्येके । लुण्टण स्तेये च ॥ २६ ॥ लुण्टयति । स्लिटण लेहने ॥ २७॥ नेटयति । घट्टण चलने ॥ २८ ॥ खण संवरणे ॥ २९ ॥ ष स्फिटण हिंसायाम् ॥ ३० ॥ प्रथमो बलदाननिकेतनेष्वपीत्यन्ये । सध्यति । स्फेटयति । स्फिटण् अनादरे इत्यन्ये । स्फुटण परिहासे ॥३१॥ कीट वर्णने ॥ ३२॥ बन्ध इत्यन्ये । वटुण विभाजने ॥३३॥ डान्तोऽयमित्येके । वण्टयति । रुटण रोषे ॥ ३४ ॥रोटयति । शठ श्वठ श्वटुण संस्कारगत्योः ॥ ३५ ॥ शाठयति । श्वाठयति । श्वण्ठयति । श्वण्ठति । शुठण आलस्ये ॥३६॥ शोठयति । शुटुण शोषणे ॥ ३७ ॥ शुण्ठयति । गुटुणू वेष्टने ॥ ३८ ॥ गुण्ठयति । अवगुण्ठति । लडण उपसेवायाम् ॥ ३९॥ लाडयति । लत्वे । उपलालयति । जिहोन्मथने घटादित्वाणिगि इखे लडयति । स्फुडुण परिहासे ॥४०॥ स्फुण्डयति । ओलड्डणू उत्क्षेपे ॥ ४१ ॥ ओलण्डयति । ओदिदयमित्यन्ये । लण्डयति । पीडण् गहने ॥ ४२ ॥ पीडयति । । । भ्राजभासभाषदीपपीडजीवमीलकणरणवणभण
श्रण(हेठलुटलुपलपां न वा ॥४॥२॥३६॥ __ एषां उपरे णाबुपान्त्यस्य हस्त्रो वा स्यात् । अपीपिडत् । अपिपीडत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् । तेन अपूपुरत् अपुपूरदित्यादि । तडण् आघाते ॥४॥ ताडयति । खड खडण भेदे । खाडयति । खण्डयति । कडण खण्डने च ॥ ४४ ॥ कण्डयति । खुडण खण्डन इत्येके । कुडुण् रक्षणे ॥४५॥ कुण्डयति । गुड्डण वेष्टने च ॥ ४६॥ चुडण छेदने ॥४७॥ मडण् भूषायाम् ॥ ४८ ॥ भडण कल्याणे ॥४९॥ दान्तोऽयमित्यन्ये । भन्दयति । पिडण् संघाते ॥५०॥ पिण्डयति । पडण् इत्येके । पण्डयति । ईडण् स्तुतौ ॥५१॥ चडण् कोपे ॥ ५२॥ जुड चूर्ण वर्णण प्रेरणे ॥५३॥ प्रेरणं दलनम् । जोडयति । चूर्णयति । वर्णयति । चूण तूणण संकोचने ॥५४॥ अणण् दाने ॥५५॥ श्राणयति । अशिश्रणत् । अशाणत् । पूणण संघाते ॥५६॥ पूणयति । चितुण् स्मृत्याम् ॥ ५७ ॥ उदितः खरान्नोऽन्तः। चिन्तयति । अधिचिन्तत् । चिन्तेति पठितव्ये उदित्करणं णिचः पाक्षिकले लिङ्गम् । तेन चिन्त्यात् । चिन्त्यत इत्यादी नलोपो न । चिन्तति । चिन्तेत् । पुस्त बुस्तण आदरानादरयोः॥५८॥ मुस्तण संघाते ॥ ५९॥ मुस्तयति । कृतण संशब्दने ॥ ६॥
कृतः कीर्तिः॥४।४।१२२॥ कृतणः कीर्तिः स्यात् । कीर्तयति ।
ऋवर्णस्य ॥४॥२॥३७॥ उपान्त्यस्य ऋवर्णस्य ङपरे णौ वा ऋ: स्यात् । अचीकृतत्। अधिकीर्तत् । चं.प्र. ४३