________________
३३६
॥ २ ॥ संभक्तिः संसेवा | इङित इत्यात्मनेपदम् । एषामी रितीत्वे । वृणीते । इद् सिजाशिषोरात्मने ॥ वृतो नवेति वा दीर्घः । अवरिष्ट । अवरीष्ट । इडभावपक्षे ऋवर्णादिति सिचः किश्वम् । अवृत । वरिता । वरीता । इति ऋयादयः ॥
अथ चुरादयः ।
चुरण स्तेये ॥ १ ॥
चुरादिभ्यो णिच् ||३|४|१७॥
एभ्यः खार्थे णिच् स्यात् । वर्तमाना ति कर्तर्यनद्भ्यः शब् । गुणायादेशौ । लघोरुपान्त्यस्येति पूर्वस्य गुणे । चोरयति । णिश्रि ॥ इत्यादिना के द्वित्वे । लघो दीर्घाऽखरादेः ॥ णेरनिटि || अचूचुरत् । अचूचुरताम् | अचूचुरन् । चोरयामास । चोर्यात् । चोरयिता । चोरविष्यति । अचोरयिष्यत् । अत्र णिचो गित्वाभावात् फलवत्कर्तरि आत्मनेपदं नास्ति । पाणिनिस्तु णिचश्चेति सूत्रयन्नुभयपदित्वमाह । एवं चन्द्रोऽपीति लघुन्यासे । चोरयते । चोरयिषीष्ट । णिजन्तस्यानेकस्वरत्वान्न यङ् । णिजन्तात् णिगि चोरयते द्रव्यं पत्तिमिति । अत्र के प्रत्यये णेरनिटी ॥ ति णिजो लुक्यपि णिजिति जात्याश्रयणात् । समानलोपित्वाभावात् । उपान्त्यस्ये ॥ ति हखे ।
लघोर्दीर्घः ||४|१|६४॥
इति पूर्वस्य दीर्घत्वे च अचूचुरत् इत्येव । नतु अचुचोरत् इति । पृण पूरणे ॥ २ ॥ पारयति । ऋदन्तोऽयमित्येके । घृण स्रवणे ॥ ३ ॥ घारयामास । श्वल्क व ल्क भाषणे ||४|| नक्क धक्कण नाशने ||५|| नक्कयति । चक्क चुक्कण व्यथने ॥ ६ ॥ टकुण बन्धने ॥ ७ ॥ उदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । टङ्कयति । टङ्कति । अर्कण स्तवने ॥ ८ ॥ आर्चिकत् । पिचण कुहने ॥ ९ ॥ पिञ्चयति । पचुणू विस्तारे ॥ १० ॥ प्रपञ्चयति । म्लेच्छण् म्लेच्छने ॥ ११ ॥ म्लेच्छनमव्यक्ता वाक् । ऊर्ज बलप्राणनयोः ॥ १२ ॥ तुजु पिजुण हिंसाबलदान निकेतनेषु ॥ १३॥ क्षजुण् कृच्छ्रजीवने ॥ १४ ॥ क्षञ्जयति । पूजणू पूजायाम् ॥ १५ ॥ पूजयति । अप्रूपुजत् । गजमार्जण शब्दे ॥ १६ ॥ गाजयति । मार्जयति । मर्चमर्जावप्येके पठन्ति । तिजणू निशाने ॥ १७ ॥ तेजयति । वजब्रजणू मार्गणसंस्कारगत्योः ||१८|| मार्गणो बाणस्तस्य संस्कारे गतौ चेत्यर्थः । वाजयति । ब्राजयति । रुजणू हिंसायाम् ॥ १९ ॥ रोजयति । नटणू अवस्यन्दने ॥ २० ॥ चौरस्योन्नाटयति । नृत्तौ घटादित्वाड्रखः । नयति । नडेति नन्दी | तुट चुट चुटु छुट छेदने ॥ २१ ॥ चोटयति । चुण्टयति । चुण्डति । कुट्टणू कुत्सने च ॥ २२ ॥ कुट्टयति । पुट्ट चुट्ट षुट्टण अल्पीभावे ॥ २३ ॥ सुक्ष्यति | पुद मुदण सञ्चूर्णने ॥ २४ ॥ भासार्थेऽपि पुट् वक्ष्यते । अह