SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३३० डान्तोऽयमित्यन्ये । लुडति । अलुडीत् । कृडत् घसने ॥ ९३ ॥ घसनं भक्षणम् । घनत्वे इत्यन्ये । घनत्वं सान्द्रता । कृडति । चकर्ड । कुडत् बाल्ये च ॥ ९४ ॥ कुडति । गुडत् रक्षायाम् ॥ ९५ ॥ गुडति । अगुडीत् । जुडत् बन्धे ॥ ९६ ॥ जुडति । तुडत् तोडने ॥ ९७ ॥ तुडति । लुड घुड स्थुडत् संवरणे ॥ ९८ ॥ बुडत् उत्सर्गे च ॥ ९९ ॥ चात्संवरणे । ब्रुड भ्रुडत् संघाते ॥ १०० ॥ संवरणेऽप्यन्ये । दुड टुड उडत् निमज्जने ॥ १०१ ॥ वुणत् छेदने ॥ १०२ ॥ वुणति । अवुणीत् । वुवोण | डिप क्षेपे ॥ १०३ ॥ डिपति । छुरत् छेदने ॥ १०४ ॥ छुरति । चुच्छोर । छुर्यात् । कुरुर इति दीर्घप्रतिषेधः । स्फुरत् स्फुरणे ॥ १०५ ॥ स्फुरति । चलन इत्यन्थे । स्फुलत् । संचये च ॥ १०६ ॥ इति परस्मैपदिनः ॥ कुंङ कुङत् शब्दे ॥ १ ॥ कुवते । अकुत । अकुविष्ट । कुविता । गुरैति उद्यमे || २ || गुरते | जुगुरे । वृत् कुटादिः । पुंङत् व्यायामे ॥ ३ ॥ रिः शक्याशीर्ये इति इयादेशः । व्याप्रियते । व्यापते । पर्ता । ढंङत् आदरे ॥ ४ ॥ आद्रियते । आदर्ता | धुंङत् स्थाने ॥ ५ ॥ प्रियते । दधे । धर्ता | ओषिजैति भयचलनयोः ॥ ६ ॥ अयं प्राय उत्पूर्वः । उद्विजते । I विजेरिट् ||४|३|१८ ॥ ङिद्वत्स्यात् । उद्विजिता । ओलजैङत् ओलस्जैति व्रीडायाम् ॥७॥ लज्जते । अलजिष्ट । ललजे । भ्वादौ युक्तपाठावप्येतौ प्रसिद्ध्यनुरोधादिह पठितौ । वत्सङ्गे ॥ ८ ॥ सत्वे । स्वञ्जश्चेतिषत्वे । परिष्वजते । परोक्षायां स्वादेरेव । परिषखजे । स्वञ्जर्नवा ||४|३|२२॥ 1 परोक्षा किद्वत् । नलुकि । परिषखजे । स्तुस्वञ्जचाटि न वा इति वैकल्पिके वे || पर्यध्वजत | पर्यखजत । खङ्का । नत्रा निर्दिष्टस्यानित्यत्वादिदि । अखfaष्ट । जुषैति प्रीतिसेवनयोः ॥ ९ ॥ जुषते । इत्यात्मनेपदिनः । इति तुदादयः ॥ अथ रुधादयः । रुपी आवरणे ॥ १ ॥ रुधां खराच्छूनो नलुक् च ॥३|४|८२ ॥ रुधां खरात् श्नः प्रत्ययः स्यात् कर्तरि शिति, तद्योगे न लुक् च । रुणद्धि । अविति शिति नास्त्योर्तुगि त्यकारलोपे । रुन्धः । रुन्धन्ति । ऋदित्वादङि । अरुधत् । अरौत्सीत् । अरौद्धाम् । अरौत्सुः । रुरोध । रुध्यात् । रोद्धा । रोत्स्यति । अरोत्स्यत् । रुन्धे । रुन्धाते । रुन्धते । रुन्धीत । रुन्धाम् । रुणधै । अरुन्ध । 1 १ कृड घनर इति धातुपाठे पाणिनिः - पं. वर्षानन्द मिश्रः । २ स्फुल संचलने इत्यन्ये स्फर इत्यकारोपधं केचित्पठन्ति इति पाणिनिः पं. वर्षानन्दमिश्रः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy