________________
३२९
शब्दयोः॥५६॥ पुरत् अग्रगमने ॥ ५७ ॥ मुरत् संवेष्टने ॥५८॥ सुरत् ऐश्वर्यदीत्योः ॥ ५९॥ सुरति । अषोपदेशत्वात्षत्वाभावे । सुसोर । षोपदेशोऽयमित्येके । स्फरत् स्फलत् स्फुरणे ॥ ६० ॥ स्फरति । पस्फार । किलत् श्वैत्यक्रीडनयोः ॥ ६१॥ इलत् गतिखप्रक्षेपणेषु ॥ ६२॥ इलति । इयेल । हिलत् हावकरणे॥६॥ शिल सिलत् उञ्छे ॥ ६४ ॥ अषोपदेशत्वात्षत्वाभावे । सिसेल । षोपदेशोऽयमित्येके । सिषेल । तिलत् लेहने ॥ ६५ ॥ चलत् विलसने ॥६६॥ चिलत् वसने ॥६७ ॥ बिलत् वरणे ॥ ६८॥ दन्त्योष्ठ्यादिः । णिलत् गहने ॥ ६९ ॥ णस्य नवे। निलति । प्रणिलति । मिलत् श्लेषणे ॥ ७० ॥ मिलति । मिमेल । स्पृशत् संस्पर्श ॥७१॥ अस्पाक्षीत् । अस्पार्सीत् । अस्पृक्षत् । पस्पर्श । स्पृश्यात् । स्प्रष्टा । स्पष्टी । स्प्रक्ष्यति । स्पयति । रुशं रिशंत् हिंसायाम् ॥ ७२ ॥ मृशंत् आमर्शने ॥ ७३ ॥ विंशत् प्रवेशने ॥ ७३ ॥ अविक्षत् । वेष्टा । वेक्ष्यति । लिशं ऋषैत् गतौ ॥ ७४ ॥
अलिक्षत् । आनर्ष । इषत् इच्छायाम् ॥ ७५॥ गमिषद्यमश्छः ॥ इति छत्वे ॥ इच्छति । ऐच्छत् । ऐषीत् । इयेष । एषिता। एष्टा। मिषत् स्पर्धायाम् ॥ ७६॥ वृहौत् उद्यमे ॥७७॥ उद्यम उद्धरणम् । वृहति । वर्हिता। वढा । तृहौ तुंही स्तृही स्तूंहौत् हिंसायाम् ॥ ७८ ॥ तृहति । अतीत् । अतृक्षत् । तर्हिता । तर्दा । अतुं. हीत् । अता.त् । तूंहिता । तृण्ढा । स्तृहति । अस्तीत् । अस्तृक्षत् । अस्तूंहीत् । अस्तात् । स्तृयात् । अथ कुटादिः । कुटत् कौटिल्ये ॥ ७९ ॥ कुटति । अकुटत् ।
कुटादेर्डिद्वदणित् ॥४॥३॥१७॥ कुटादेर्गणात्परो जिणिद्वर्जितः प्रत्ययो निद्वद्भवति । अकुटीत् । कुटिता। अणिदिति किम्? चुकोट । गुंत् पुरीषोत्सर्गे ॥८०॥ गुवति । अगुषीत् । गुता। धुत् गतिस्थैर्ययोः॥ ८१॥ ध्रुवति । अध्रुषीत् । दुध्राव । णूत् स्तवने ॥ ८२ ॥ नुवति । अनुवीत् । नुनाव । नुविता । धूत् विधूनने ॥ ८३ ॥ धुवति । दुधाव । धुविता । कुचत् संकोचने ॥ ८४ ॥ व्यचत् व्याजीकरणे ॥ ८५॥
व्यचोऽनसि ॥४॥१८२॥ विति सखरान्तस्था स्वृत् । विचति । विचिता । विचितुम् । विचित्वा । अव्याचीत् । ज्याव्येव्यध इति इः। विव्याच । विविचतुः । विच्यात् । व्यचिता । गुजत् शब्दे ॥८६॥ गुजति । अगुजीत् । जुगोज । घुटत् प्रतीघाते ॥ ८७॥ घुटति । जुघोट । घुटिता । गादिन्तिश्चायमित्यन्ये । गुडति । चुट छुट त्रुटत् छेदने ॥ ८८ ॥ चुटति । चुचोट । छुटति । त्रुटति । भ्रासभ्लासेति वाश्ये । त्रुध्यति । त्रुटिता। तुटत् कलहकर्मणि ॥ ८९ ॥ तुदति । अतुटीत् । मुटत् आक्षेपप्रमर्दनयोः ॥९॥ मुदति । भ्वादिस्थस्य मोटतीति तु मुट प्रमर्दने इत्यस्य । स्फुटत् विकसने ॥ ९१ ॥ स्फुटिता । पुट लुठत् संश्लेषणे ॥९२॥ पुटति । लुठति।
च.प्र. ४२