________________
३२७
रेता। पेता। धिंत् धारणे ॥३॥ धियति । धेता। क्षित् निवासगत्योः॥४॥ क्षियति । अझैषीत् । घूत् । प्रेरणे ॥५॥ सुवति । उपसर्गात्सुर ॥२॥३॥३९॥ इति षत्वे । अभिषुवति । अभ्यषुवत् । अभिसुषाव । सविता । मृत् प्राणत्यागे ॥६॥
म्रियतेरद्यतन्याशिषि च ॥३३॥४२॥ नियतरात्मनेपदं स्यात् अद्यतन्यामाशिषि शिति च । रिः शक्याशीय ॥४२११०॥ इति रित्वे । इयादेशे । म्रियते । अत । ममार । मृषीष्ट । मर्ता । मरिष्यति । कृत् विक्षेपे ॥ ७॥ किरति । गृत् निगरणे ॥ ८॥ ऋतां कुित्तीर ॥४४१९१६॥ गिरति ।।
नवा स्वरे ॥२॥३॥१०२॥ गिरते रस्य लो वा स्यात् स्वरे । गिलति । अगारीत् । जगार । गीर्यात् । गरिता । गरीता।
किरो लवने ॥४।४।९३॥ उपात्किरतेः स्सडादिः स्याल्लवने । उपस्किरति । लुनातीत्यर्थः ।
प्रतेश्च वधे ॥४॥४॥९४॥ प्रतेरुपात्र हिंसायां तथा । प्रतिस्किरति । उपस्किरति । लिखत् अक्षरविन्यासे ॥ ९॥ लिखति । लिलेख । लेखिता । कुटादिरयमित्येके । तन्मते लिखनीयमित्यादौ न गुणः । जर्च झर्चत् परिभाषणे ॥१०॥ तर्जनेऽपीत्येके । जर्चति । अजीत् । जझर्च । झर्चिता। चादिरयमित्यन्ये । चर्चति । णके । चर्चिका । स्वचत् संवरणे ॥ ११॥ त्वचति । तत्वाच । ऋचत् स्तुतौ ॥ १२॥ ऋचति । आनर्च । आऋचतुः। ओब्रस्चौत् छेदने ॥ १३ ॥ वृश्चति । वेट्त्वात् । अवश्चीत् । अवाक्षीत् । ववश्च । वव्रश्चिथ । वृश्च्यात् । व्रश्चिता । व्रष्टा । प्रच्छंत् ज्ञीप्सायाम्॥१४॥ ग्रतश्चेति वृत् । पृच्छति ।
- अनुनासिके च च्छः शूट ॥४।१।१०८॥
अनुनासिकादौ धुडादौ च प्रत्यये परे धातोः छकारवकारयोः शकारोकारो भवतः । अप्राक्षीत् । पप्रच्छ । पृच्छयात् । प्रष्टा । प्रक्ष्यति । ऋछत् इन्द्रियप्रलय. मूर्तिभावयोः ॥१५॥ इन्द्रियप्रलय इन्द्रियमोहः । छस्य द्वित्वे । ऋच्छति । ऋच्छवर्जनानाम् । स्कृच्छ्रतोऽकीति ॥४॥३९॥ गुणे । आनर्छ । आनछतुः। ऋच्छिता। विछत् गतौ ॥ १६॥ अशवि ते वा ॥२४॥४॥ इत्यायप्रत्यये विच्छायति। विच्छति । अविच्छायीत् । अविच्छीत् । विच्छायांचकार । विविच्छ । उच्छैत् विवासे ॥ १७ ॥ विवासः समाप्तिः। उच्छति । उच्छाञ्चकार । मिच्छत् उत्क्लेशे ॥ १८॥ मिच्छति । उच्छुत् उञ्छे ।। १९॥ उदित्वान्ने । उञ्छति । उच्छाञ्चकार ।