SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३२४ सुगः स्यसनि ॥ २३३६२॥ सस्य न षत्वम् । अभिसोष्यति । पिंगट् बन्धने ॥ २ ॥ सिनोति । सिनुते । शिंग निशाने || ३ || शिनोति । शिनुते । शिशाय । शिश्ये । शेता | डुमिंगट् प्रक्षेपणे ॥ ४ ॥ मिनोति । मिनुते । मिग्मीगोऽखलचलि ||४|२|८|| मिनोतिमीनात्यो र्यपि खलअचूअल्वर्जितेऽकिति च प्रत्यये विषयभूते आकारोऽन्तादेशः स्यात् । अमासीत् । अमासिष्टाम् । अमास्त । ममौ । ममिथ । मिम्ये । मीयात् । मासीष्ट । माता २ । मास्यति । मास्यते । चिंगूद्र चयने ॥ ५ ॥ चिनोति । चिनुते । अचैषीत् । अचेष्ठ । चेः कि वो ||४|१।३६॥ सनि परोक्षायां च परतो द्वित्वे सति पूर्वात्परस्य चेः किर्वा स्यात् । चिकाय | चिचाय । चिक्यतुः । योऽनेकस्वरस्येति यकारे । चिक्ये | चिच्ये । श्रीयात् । चेषीष्ट । चेता । चेष्यति । चेष्यते | धूगट् कम्पने ||६|| धूनोति । धूनुते । अधावीत् । अधविष्ट । अधोष्ट | दुधाव । दुधविथ । दुधवे । धूयात् । धविषीष्ट । घोषीष्ट । धोता । धविता । स्तुंगट् आच्छादने ॥ ७ ॥ स्तृणोति । स्तृणुते । I संयोगादृतः || ४|४|३७॥ संयोगात्परस्य ऋतः परयोरात्मनेपदे सिजाशिषोरादिरिड्डा स्यात् । अस्तार्षीत् । अस्तरिष्ट । अस्तृत । तस्तार । तस्तरतुः । तस्तरे । क्ययङाशीर्ये ॥ ४॥ ३॥१०॥ इतिगुणे । स्तर्यात् । स्तरिषीष्ट । स्तृषीष्ट । कुंगटू हिंसायाम् ॥ ८ ॥ कृणोति । कृणुते । अकार्षीत् । अकृत । चकार । चकर्थ । चक्रे । चढे । क्रियात् । कृषीष्ट । वृट् वरणे ॥ ९ ॥ वृणोति । वृणुते । अवारीत् । 1 इसिजाशिषोरात्मने ॥ ४|४ | ३६ ॥ वृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिड्डा स्यात् । अवरिष्ट । अवरीष्ट । अवृत । ववार । ऋवृव्यऽद इट् इति । ववरिथ । वत्रे | वियात् । वरिषीष्ट । वरीषीष्ट । वृषीष्ट । वरिता । वरीता । वरिष्यति । वरीष्यति । वरिष्यते । वरीष्यते । अवरिष्यत् २ | अवरीष्यत २ । वृतो नवे || ४|४|३५|| ति वा दीर्घः ॥ इत्युभयपदिनः ॥ हिंदू गतिवृद्ध्योः ॥ १ ॥ हिनोति । अदुरुपसर्गे ॥२|३|७७|| ति णत्वे । प्रहिणोति । अहैषीत् । अङे हिहनो हो घः पूर्वात् ||४|१|३४|| इतिघत्वे । जिघाय । हीयात् । हेता । हेष्यति । श्रुं श्रवणे ॥ २ ॥ श्रौती ||४|२|१०|| त्यादिना व आदेशः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy