________________
३१२
ईशीडः सेवे स्वध्वमोः ॥४।४।८७॥ आभ्यामेष्विटू स्यात् । ईडिषे। ईडाथे। ईडिध्वे । ईडे । ईडहे । ईड्रमहे । ईडीत । ईट्टाम्। ईडिष्व। ईडिध्वम् । ईरिक गती कम्पने च ॥८॥ ईते । ईरीत । इंतोंम् । ऐते । ऐरिष्ट । ईराश्चक्रे । ईरिषीष्ट । ईरिता। इरिष्यते । ऐरिष्यत । ईशिक ऐश्वर्ये ॥९॥ ईष्ट। ईशिषे । ईशिध्वे । ईशीत । ईष्टाम् । ऐष्ट ऐशिष्ट । ईशाञ्चके। ईशिषीष्ट । ईशिता । ईशिष्यते । ऐशिष्यत । वसिक आच्छादने ॥१०॥ वस्ते । वस्से । वध्वे । वसीत । इत्यादि । आङः शाकि इच्छायाम् ॥११॥ आशास्ते । आशासाते । प्रशास्महे इत्यप्यस्य । आसिक उपवेशने ॥१२॥ आस्ते आसीत । आस्ताम् । आरख । आध्वम् । आसै । आस्त । आसिष्ट । दयायास्कासः ॥२४॥४७॥ इत्यामि आसाश्चक्रे । आसिषीष्ट । आसिता। आसिष्यते । आसिष्यत । णिसुकि चुम्बने ॥ १३ ॥ उदित्वानोऽन्तः । निस्ते । कसुकि गतिशातनयोः ।।१४ ॥ कंस्ते । अयमनुदित् । कस्ते । तालव्यान्तोऽप्ययम् । कष्टे । कशाते । कक्षे। कड्ढे । चक्षिक व्यक्तायां वाचि ॥१६॥ दर्शनेऽप्यन्ये । संयोगादौ कस्य लोपे। आचष्टे । आचक्षाते । आचक्षते । आचक्षे । आचक्षाथे । आचढे । आचक्षीत । आचष्टाम् । आचष्ट। आचक्षाताम् । आचक्षत ।
चक्षो वाचि ख्यांग कशांग ॥४॥४॥४॥ वागर्थस्याशिति विषये चक्षो धातोः स्यांग क्शांग एतौ स्तः ।
नवा परोक्षायाम् ॥४॥४॥५॥ स्पष्टम् । अनुस्वार इनिषेधार्थः । गकार उभयपदार्थः । द्वितीयादेशः कायुक्तः। स युक्त इत्यन्ये । क्श युक्त इत्यपरे । अक्शासीत् । जिघ्रतिवत् । अक्शास्त । शास्त्यसि ॥३४॥६०॥ त्यादिनाङि । आख्यत् । आख्यत । द्वित्वे, व्यञ्जनस्यानाद टुंगि ॥४१॥४४॥ ति शुलुकि, कङमचनि ॥४१॥४६॥ ति चत्वे । आचक्शौ । आचक्शे । द्वितीयतुर्थयो॥४१॥४२॥ रिति खस्य कल्वे च । आचख्यौ। आचख्ये । पक्षे । चचक्षे । आक्शायात् २। आक्शेयात् २ । आक्शासीष्ट २। आख्याता २।आक्शास्यति २। आक्शास्यते । अत्र भाष्ये खूशादिरयमादेशः। शस्ययोवेत्यसिद्धकाण्डे स्थितम् । इत्यात्मनेपदिनः ।। ऊर्गुगक आच्छादने ॥१॥
वोर्णोः ॥४॥३॥६॥ ऊोतेरद्युक्तस्य व्यञ्जनादौ वित्यौर्वा स्यात् । ऊौति । ऊोंति । ऊर्युतः। अर्णवन्ति । ऊौषि । ऊर्णोषि । ऊर्णयात् । ऊौतु । ऊर्णोतु ।