________________
३११ अस्ति ब्रुवो भूवचावशिति ॥४|४|१॥ अनयोरेतौ स्याताम् । अभूत् । बभूव । इत्यादि प्राग्वत् । षसक स्वने ॥४२॥ सस्ति । सस्तः । ससन्ति । असासीत् । अससीत् । यलुबन्ता अपि धातवोऽदादिगणस्था एव साध्याः। इति परस्मैपदिनः ॥
इं अध्ययने ॥१॥ अधिपूर्वोऽयं प्रयोगे । अधीते । धातोरिवर्णोवर्णस्थेतीयादेशे। अधीयाते । अधीयते । अधीषे । अधीयीत । अधीताम् । अधीयाताम् । अधीयताम् । अध्ययै । गुणायादेशयोः करणादनुपसर्गस्य यत्वम् । पूर्व धातुरुपसर्गेण युज्यते ततः प्रत्ययकार्येण इति गुणात्पूर्व समानानामिति दीर्घः प्राप्तः । इङ् अध्ययने इति निर्देशान्न भवति । अध्यैत । अध्ययाताम् । अध्ययत । धातोरिवर्णोवर्णस्ये ॥२॥१५०॥ ति इयादेशे, खरादेस्तासु ॥४॥४॥३१॥ इति वृद्धिः। अध्यैयि । अध्यैव हि । अध्यैमहि ।
वाद्यतनीक्रियातिपत्त्यो र्गी ॥४॥४॥२८॥
अनयोविभत्योरिडोगीवा स्यात् । अध्यगीष्ट । अध्यैष्ट। अध्यगीषाताम् । अध्यैषाताम् । अध्यगीषत । अध्यैषत ।
गाः परोक्षायाम् ॥४॥४॥२६॥ इड्रपरोक्षायां विषये गाः स्यात् । अधिजगे। अध्येषीष्ट । अध्येता। अध्येष्यते । अध्यगीष्यत । अध्यैष्यत । शी स्वने ॥ २॥
शीङ एः शिति ॥४।३।१०४॥ शीङः शिति परे एकारोऽन्तादेशो भवति । शेते । शयाते ।
शीडोरत् ॥४॥२॥११५॥ शीङः परस्यात्मनेपदस्थस्यान्तो रत् स्यात् । शेरते। शयीत | शेताम् । शयाताम् । शेरताम् । शेष्व । अशेत। अशयिष्ट । शिश्ये । शयिषीष्ट । शयिता। शयिष्यते । अशयिष्यत । धूडोक् प्राणिगर्भविमोचने ॥३॥ सूते । सुवीत । सूताम्। विच्छितोऽकित्वाद्गुणे प्राप्ते ।
सूतेः पञ्चम्याम् ॥४॥३॥१३॥ गुणो न स्यात् । सुवै । असूत । औदित्वादिडिकल्पः । असविष्ट । असविषाताम् । असविषत । पक्षे । असोष्ट । असोषाताम् । असोषत । सुषुवे । सुषुविषे । सोषीष्ट । सविषीष्ट । सोता । सविता.। सोष्यते । सविष्यते । असोष्यत । असविष्यत । णिजुक शुद्धौ ॥ ३ ॥ निते। निझे । शिजुकि अव्यक्ते शब्दे ॥४॥ शिले । एवं पृचैङ् पृजुङ पिजुकि सम्पर्चने ॥६॥मिश्रणे इत्यर्थः । पृक्ते । एते। पिके । जैकि वर्जने ॥६॥ वृक्ते । वृक्षे। ईडिक स्तुतौ ॥७॥ ईवे । ईडाते। ईडते।